Ayodhya Kanda – Sarga 46 (Valmiki Ramayana)

Rama passes the night on the banks of Tamasa river

Valmiki Ramayana – Kanda 2 – Sarga 46

ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः |
सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् || २-४६-१

इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् |
वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि || २-४६-२

पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः |
यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः || २-४६-३

अद्य अयोध्या तु नगरी राज धानी पितुर् मम |
सस्त्री पुंसा गतान् अस्मान् शोचिष्यति न संशयः || २-४६-४

अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः |
त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा || २-४६-५

पितरम् चानुशोचामि मातरम् च यशस्विनीम् |
अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः || २-४६-६

भरतः खलु धर्म आत्मा पितरम् मातरम् च मे |
धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ||२-४६-७

भरतस्य आनृशंसत्वम् संचिन्त्य अहम् पुनः पुनः |
न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण || २-४६-८

त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् |
अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता || २-४६-९

अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् |
एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति || २-४६-१०

एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः |
अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह || २-४६-११

सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते |
प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः || २-४६-१२

उपास्यतु शिवाम् संध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् |
रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह || २-४६-१३

ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् |
रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह || २-४६-१४

सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः |
कथयाम् आस सूताय रामस्य विविधान् गुणान् || २-४६-१५

जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः |
सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् || २-४६-१६

गो कुल आकुल तीरायाः तमसायाः विदूरतः |
अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह || २-४६-१७

उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च |
अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् || २-४६-१८

अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि |
वृक्ष मूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् || २-४६-१९

यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने |
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् || २-४६-२०

यावद् एव तु संसुप्ताः तावद् एव वयम् लघु |
रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् || २-४६-२१

अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः |
स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि संश्रिताः || २-४६-२२

पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः |
न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः || २-४६-२३

अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् |
रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति || २-४६-२४

अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः |
गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो || २-४६-२५

सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः |
योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् || २-४६-२६

अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर |
त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः || २-४६-२७

तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः |
शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् || २-४६-२८

स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् |
प्रापद्यत महामार्गमभयम् भयदर्शिनाम् || २-४६-२९

मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः |
उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे || २-४६-३०
मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः |
यथा न विद्युः पौरा माम् तथा कुरु समाहितः || २-४६-३१

रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः |
प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् || २-४६-३२

तौ सम्प्रयुक्तम् तु रथम् समासित्थौ |
तदा ससीतौ रघवंशवर्धनौ |
प्रचोदयामास ततस्तुरम्गमान् |
स सारथिर्येन पथा तपोवनम् || २-४६-३३

ततः समास्थाय रथम् महारथः
ससारथिर्धाशरथिर्वनम् ययौ |
उदङ्मुखम् तम् तु रथम् चकार स |
प्रयाणमाङ्गश्यनिवितदर्शनात् || २-४६-३४

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ष्ट्चत्वारिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।