Ayodhya Kanda – Sarga 46 (Valmiki Ramayana)

Rama passes the night on the banks of Tamasa river

Valmiki Ramayana – Kanda 2 – Sarga 46

ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः |
सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् || २-४६-१

इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् |
वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि || २-४६-२

पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः |
यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः || २-४६-३

अद्य अयोध्या तु नगरी राज धानी पितुर् मम |
सस्त्री पुंसा गतान् अस्मान् शोचिष्यति न संशयः || २-४६-४

अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः |
त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा || २-४६-५

पितरम् चानुशोचामि मातरम् च यशस्विनीम् |
अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः || २-४६-६

भरतः खलु धर्म आत्मा पितरम् मातरम् च मे |
धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ||२-४६-७

भरतस्य आनृशंसत्वम् संचिन्त्य अहम् पुनः पुनः |
न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण || २-४६-८

त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् |
अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता || २-४६-९

अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् |
एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति || २-४६-१०

एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः |
अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह || २-४६-११

सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते |
प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः || २-४६-१२

उपास्यतु शिवाम् संध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् |
रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह || २-४६-१३

ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् |
रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह || २-४६-१४

सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः |
कथयाम् आस सूताय रामस्य विविधान् गुणान् || २-४६-१५

जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः |
सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् || २-४६-१६

गो कुल आकुल तीरायाः तमसायाः विदूरतः |
अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह || २-४६-१७

उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च |
अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् || २-४६-१८

अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि |
वृक्ष मूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् || २-४६-१९

यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने |
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् || २-४६-२०

यावद् एव तु संसुप्ताः तावद् एव वयम् लघु |
रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् || २-४६-२१

अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः |
स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि संश्रिताः || २-४६-२२

पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः |
न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः || २-४६-२३

अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् |
रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति || २-४६-२४

अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः |
गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो || २-४६-२५

सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः |
योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् || २-४६-२६

अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर |
त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः || २-४६-२७

तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः |
शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् || २-४६-२८

स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् |
प्रापद्यत महामार्गमभयम् भयदर्शिनाम् || २-४६-२९

मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः |
उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे || २-४६-३०
मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः |
यथा न विद्युः पौरा माम् तथा कुरु समाहितः || २-४६-३१

रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः |
प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् || २-४६-३२

तौ सम्प्रयुक्तम् तु रथम् समासित्थौ |
तदा ससीतौ रघवंशवर्धनौ |
प्रचोदयामास ततस्तुरम्गमान् |
स सारथिर्येन पथा तपोवनम् || २-४६-३३

ततः समास्थाय रथम् महारथः
ससारथिर्धाशरथिर्वनम् ययौ |
उदङ्मुखम् तम् तु रथम् चकार स |
प्रयाणमाङ्गश्यनिवितदर्शनात् || २-४६-३४

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ष्ट्चत्वारिंशः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment