Sumitra assuages Kausalya’s grief
Valmiki Ramayana – Kanda 2 – Sarga 44
विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् |
इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् || २-४४-१
तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः |
किम् ते विलपितेन एवम् कृपणम् रुदितेन वा || २-४४-२
यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः |
साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् || २-४४-३
शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये |
रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन || २-४४-४
वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः |
दयावान् सर्व भूतेषु लाभः तस्य महात्मनः || २-४४-५
अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता |
अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् || २-४४-६
कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः |
दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः || २-४४-७
व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् |
न गात्रम् अंशुभिः सूर्यः सम्तापयितुम् अर्हति || २-४४-८
शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः |
राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः || २-४४-९
शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् |
रश्मिभिः संस्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति || २-४४-१०
ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे |
दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे || २-४४-११
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः |
असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति || २-४४-१२
यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः |
कथम् न प्ऱ्^थिवी तस्य शासने स्थातुमर्हति || २-४४-१३
या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता |
निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति || २-४४-१४
सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः |
श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा || २-४४-१५
दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः |
तस्य केह्यगुणा देवि वने वा प्यथवा पुरे || २-४४-१६
पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः |
क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते || २-४४-१७
दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् |
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः || २-४४-१८
कुशचीरधरम् देवम् गच्छन्तमपराजितम् |
सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् || २-४४-१९
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् |
लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् || २-४४-२०
निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् |
जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते || २-४४-२१
शिरसा चरणावेतौ वन्दमानमनिन्दिते |
पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् || २-४४-२२
पुनः प्रविष्टम् द्ऱ्^ष्ट्वा तमभिषिक्तम् महाश्रियम् |
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः || २-४४-२३
मा शोको देवि दुःखम् वा न राअमे दृअह्य्ऱ्Wऽशिवम् |
क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् || २-४४-२४
त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे |
किमिदानीमिदम् देवि करोषि हृदि विक्लबम् || २-४४-२५
नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः |
न हि रामात्परो लोके विद्यते सत्पथे स्थितः || २-४४-२६
अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् |
मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी || २-४४-२७
पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः |
पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति || २-४४-२८
अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् |
मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् || २-४४-२९
आश्वासयन्ती विविधैश्च वाक्यै |
र्वाक्योपचारे कुशलानाद्या |
रामस्य ताम् मातरमेवमुक्त्वा |
देवी सुमित्राविरराम रामा || २-४४-३०
निशम्य तल् लक्ष्मण मातृ वाक्यम् |
रामस्य मातुर् नर देव पत्न्याः |
सद्यः शरीरे विननाश शोकः |
शरद् गतः मेघैव अल्प तोयः || २-४४-३१
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे चतुश्चत्वारिंशः सर्गः ||
3 thoughts on “Ayodhya Kanda – Sarga 44 (Valmiki Ramayana)”
Downloading the betpkapp now. Heard good things about it. Hoping to win big! Will update after a few sessions! Sana all! betpkapp
Been checking out ph39jl lately. It’s got the usual stuff, but the promos they run are pretty good. Keep an eye out for those! Check ’em out: ph39jl
Phwinslotlogin has a streamlined login process which is pretty slick. Gets you right into the games. Fast in and fast out! Test the waters at: phwinslotlogin