Ayodhya Kanda – Sarga 41 (Valmiki Ramayana)

The Grief

Valmiki Ramayana – Kanda 2 – Sarga 41

तस्मिंस्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ |
आर्तशब्दोऽथ सम्जज्ञे स्त्रीणामन्तह्पुते तदा || २-४१-१

अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः |
यो गतिम् शरणम् च आसीत् स नाथः क्व नु गच्चति || २-४१-२

न क्रुध्यति अभिशस्तः अपि क्रोधनीयानि वर्जयन् |
क्रुद्धान् प्रसादयन् सर्वान् सम दुह्खः क्व गच्चति || २-४१-३

कौसल्यायाम् महा तेजा यथा मातरि वर्तते |
तथा यो वर्तते अस्मासु महात्मा क्व नु गच्चति || २-४१-४

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितः वनम् |
परित्राता जनस्य अस्य जगतः क्व नु गच्चति || २-४१-५

अहो निश्चेतनो राजा जीव लोकस्य सम्प्रियम् |
धर्म्यम् सत्य व्रतम् रामम् वन वासो प्रवत्स्यति || २-४१-६

इति सर्वा महिष्यः ता विवत्साइव धेनवः |
रुरुदुः चैव दुह्ख आर्ताः सस्वरम् च विचुक्रुशुः || २-४१-७

स तम् अन्तः पुरे घोरम् आर्त शब्दम् मही पतिः |
पुत्र शोक अभिसम्तप्तः श्रुत्वा च आसीत् सुदुह्खितः || २-४१-८

न अग्नि होत्राणि अहूयन्त सूर्यः च अन्तर् अधीयत |
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् || २-४१-९

व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् |
पुत्रम् प्रथमजम् लब्ध्वा जननी नाभ्यनन्दत || २-४१-१०

त्रिशन्कुर् लोहित अन्गः च बृहस्पति बुधाव् अपि |
दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः || २-४१-११

नक्षत्राणि गत अर्चीम्षि ग्रहाः च गत तेजसः |
विशाखाः च सधूमाः च नभसि प्रचकाशिरे || २-४१-१२

कालिकानिलवेगेन महोदधिरिवोत्थितः |
रामे वनम् प्रव्रजिते नगरम् प्रचचाल तत् || २-४१-१३

दिशः पर्याकुलाः सर्वा स्तिमिरेणेव सम्वृताः |
न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन || २-४१-१४

अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् |
आहारे वा विहारे वा न कश्चित् अकरोन् मनः || २-४१-१५

शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् |
अयोध्यायाम् जनः सर्वः शुशोच जगतीपतिम् || २-४१-१६

बाष्प पर्याकुल मुखो राज मार्ग गतः जनः |
न हृष्टः लक्ष्यते कश्चित् सर्वः शोक परायणः || २-४१-१७

न वाति पवनः शीतः न शशी सौम्य दर्शनः |
न सूर्यः तपते लोकम् सर्वम् पर्याकुलम् जगत् || २-४१-१८

अनर्थिनः सुताः स्त्रीणाम् भर्तारः भ्रातरः तथा |
सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन् || २-४१-१९

ये तु रामस्य सुहृदः सर्वे ते मूढ चेतसः |
शोक भारेण च आक्रान्ताः शयनम् न जुहुस् तदा || २-४१-२०

ततः तु अयोध्या रहिता महात्मना |
पुरंदरेण इव मही सपर्वता |
चचाल घोरम् भय भार पीडिता |
सनाग योध अश्व गणा ननाद च || २-४१-२१

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकचत्वारिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।