Ayodhya Kanda – Sarga 40 (Valmiki Ramayana)

Rama’s departure from Ayodhya

Valmiki Ramayana – Kanda 2 – Sarga 40

अथ रामः च सीता च लक्ष्मणः च कृत अन्जलिः |
उपसम्गृह्य राजानम् चक्रुर् दीनाः प्रदक्षिणम् || २-४०-१

तम् च अपि समनुज्ञाप्य धर्मज्ञः सीतया सह |
राघवः शोक सम्मूढो जननीम् अभ्यवादयत् || २-४०-२

अन्वक्षम् लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् |
अथ मातुः सुमित्राया जग्राह चरणौ पुनः || २-४०-३

तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत् |
हित कामा महा बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम् || २-४०-४

सृष्टः त्वम् वन वासाय स्वनुरक्तः सुहृज् जने |
रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्चति || २-४०-५

व्यसनी वा समृद्धो वा गतिर् एष तव अनघ |
एष लोके सताम् धर्मः यज् ज्येष्ठ वशगो भवेत् || २-४०-६

इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम् |
दानम् दीक्षा च यज्ञेषु तनु त्यागो मृधेषु च || २-४०-७

लक्स्मणम् त्वेवम्क्त्वा सा संसिद्धम् प्रियराघवम् |
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् || २-४०-८

रामम् दशरथम् विद्धि माम् विद्धि जनक आत्मजाम् |
अयोध्याम् अटवीम् विद्धि गच्च तात यथा सुखम् || २-४०-९

ततः सुमन्त्रः काकुत्स्थम् प्रान्जलिर् वाक्यम् अब्रवीत् |
विनीतः विनयज्ञः च मातलिर् वासवम् यथा || २-४०-१०

रथम् आरोह भद्रम् ते राज पुत्र महा यशः |
क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसि || २-४०-११

चतुर् दश हि वर्षाणि वस्तव्यानि वने त्वया |
तानि उपक्रमितव्यानि यानि देव्या असि चोदितः || २-४०-१२

तम् रथम् सूर्य सम्काशम् सीता हृष्टेन चेतसा |
आरुरोह वर आरोहा कृत्वा अलम्कारम् आत्मनः || २-४०-१३

तथैव आयुध जातानि भ्रातृभ्याम् कवचानि च |
रथ उपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् || २-४०-१४

वनवासम् हि सम्ख्यय वासांस्याभरणानि च |
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ || २-४०-१५

तथैवायुधजालानि भ्रातृभ्याम् कवचानि च |
रथोपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् || २-४०-१६
सीता तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् |
सुमन्त्रः सम्मतान् अश्वान् वायु वेग समान् जवे || २-४०-१७

प्रयाते तु महा अरण्यम् चिर रात्राय राघवे |
बभूव नगरे मूर्च्चा बल मूर्च्चा जनस्य च || २-४०-१८

तत् समाकुल सम्भ्रान्तम् मत्त सम्कुपित द्विपम् |
हय शिन्जित निर्घोषम् पुरम् आसीन् महा स्वनम् || २-४०-१९

ततः सबाल वृद्धा सा पुरी परम पीडिता |
रामम् एव अभिदुद्राव घर्म आर्तः सलिलम् यथा || २-४०-२०

पार्श्वतः पृष्ठतः च अपि लम्बमानाः तत् उन्मुखाः |
बाष्प पूर्ण मुखाः सर्वे तम् ऊचुर् भृश दुह्खिताः || २-४०-२१

सम्यच्च वाजिनाम् रश्मीन् सूत याहि शनैः शनैः |
मुखम् द्रक्ष्यामि रामस्य दुर्दर्शम् नो भविष्यति || २-४०-२२

आयसम् हृदयम् नूनम् राम मातुर् असंशयम् |
यद् देव गर्भ प्रतिमे वनम् याति न भिद्यते || २-४०-२३

कृत कृत्या हि वैदेही चाया इव अनुगता पतिम् |
न जहाति रता धर्मे मेरुम् अर्क प्रभा यथा || २-४०-२४

अहो लक्ष्मण सिद्ध अर्थः सतताम् प्रिय वादिनम् |
भ्रातरम् देव सम्काशम् यः त्वम् परिचरिष्यसि || २-४०-२५

महति एषा हि ते सिद्धिर् एष च अभ्युदयो महान् |
एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्चसि || २-४०-२६

एवम् वदन्तः ते सोढुम् न शेकुर् बाष्पम् आगतम् |
अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीन चेतनः || २-४०-२७

अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः |
निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात् || २-४०-२८

शुश्रुवे च अग्रतः स्त्रीनाम् रुदन्तीनाम् महा स्वनः |
यथा नादः करेणूनाम् बद्धे महति कुन्जरे || २-४०-२९

पिता च राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ |
परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा || २-४०-३०

स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः |
सूतम् संचोदयामास त्वरितम् वाह्यतामिति || २-४०-३१

रामो याहीति सूतम् तम् तिष्ठेति स जनस्तदा |
उभयम् नाशकत्सूतः कर्तुमध्वनि चोदितः || २-४०-३२

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः |
पतितैरभ्यवहितम् प्रशशाम महीरजः || २-४०-३३

रुदिताश्रुपरिद्यूनम् हाहाकृतमचेतनम् |
प्रयाणे राघवस्यासीत्पुरम् परमपीडितम् || २-४०-३४

सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् |
मीनसम्क्षोभचलितैः सलिलम् पङ्कजैरिव || २-४०-३५

दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् |
निपपातैव दुःखेन हतमूल इव द्रुमः || २-४०-३६

ततओ हल हला शब्दो जज्ञे रामस्य पृष्ठतः |
नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश दुह्खितम् || २-४०-३७

हा राम इति जनाः केचित् राम माता इति च अपरे |
अन्तः पुरम् समृद्धम् च क्रोशन्तम् पर्यदेवयन् || २-४०-३८

अन्वीक्षमाणो रामः तु विषण्णम् भ्रान्त चेतसम् |
राजानम् मातरम् चैव ददर्श अनुगतौ पथि || २-४०-३९

स बद्ध इव पाशेन किशोरो मातरम् यथा |
धर्मपाशेन सम्क्षिप्तः प्रकाशम् नाभुदैक्षत || २-४०-४०

पदातिनौ च यान अर्हाव् अदुह्ख अर्हौ सुख उचितौ |
दृष्ट्वा संचोदयाम् आस शीघ्रम् याहि इति सारथिम् || २-४०-४१

न हि तत् पुरुष व्याघ्रः दुह्खदम् दर्शनम् पितुः |
मातुः च सहितुम् शक्तः तोत्र अर्दितैव द्विपः || २-४०-४२

प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् |
बद्धवत्सा यथा धेनू राममाताभ्याधावत || २-४०-४३

तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् |
क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च || २-४०-४४
रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारि नेत्रजम् |
असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् || २-४०-४५

तिष्ठ इति राजा चुक्रोष याहि याहि इति राघवः |
सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा || २-४०-४६

न अश्रौषम् इति राजानम् उपालब्धो अपि वक्ष्यसि |
चिरम् दुह्खस्य पापिष्ठम् इति रामः तम् अब्रवीत् || २-४०-४७

रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तम् जनम् |
व्रजतः अपि हयान् शीघ्रम् चोदयाम् आस सारथिः || २-४०-४८

न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् |
मनसा अपि अश्रु वेगैः च न न्यवर्तत मानुषम् || २-४०-४९

यम् इच्चेत् पुनर् आयान्तम् न एनम् दूरम् अनुव्रजेत् |
इति अमात्या महा राजम् ऊचुर् दशरथम् वचः || २-४०-५०

तेषाम् वचः सर्व गुण उपपन्नम् |
प्रस्विन्न गात्रः प्रविषण्ण रूपः |
निशम्य राजा कृपणः सभार्यो |
व्यवस्थितः तम् सुतम् ईक्षमाणः || २-४०-५१

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे चत्वारिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।