Ayodhya Kanda – Sarga 36 (Valmiki Ramayana)

Siddhartha tries to persuade Kaikeyi

Valmiki Ramayana – Kanda 2 – Sarga 36

ततः सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया |
सबाष्पम् अतिनिह्श्वस्य जगाद इदम् पुनः पुनः || २-३६-१

सूत रत्न सुसम्पूर्णा चतुर् विध बला चमूः |
रागवस्य अनुयात्रा अर्थम् क्षिप्रम् प्रतिविधीयताम् || २-३६-२

रूप आजीवा च शालिन्यो वणिजः च महा धनाः |
शोभयन्तु कुमारस्य वाहिनीम् सुप्रसारिताः || २-३६-३

ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः |
तेषाम् बहु विधम् दत्त्वा तान् अपि अत्र नियोजय || २-३६-४

आयुधानि च मुख्यानि नागराः शकटानि च |
अनुगच्छन्तु काकुत्थ्सम् व्याधाश्चारण्यगोचराः || २-३६-५

निघ्नन् मृगान् कुन्जरामः च पिबमः च आरण्यकम् मधु |
नदीः च विविधाः पश्यन् न राज्यम् संस्मरिष्यति || २-३६-६

धान्य कोशः च यः कश्चित् धन कोशः च मामकः |
तौ रामम् अनुगच्चेताम् वसन्तम् निर्जने वने || २-३६-७

यजन् पुण्येषु देशेषु विसृजमः च आप्त दक्षिणाः |
ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने || २-३६-८

भरतः च महा बाहुर् अयोध्याम् पालयिष्यति |
सर्व कामैः पुनः श्रीमान् रामः संसाध्यताम् इति || २-३६-९

एवम् ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् |
मुखम् च अपि अगमात् शेषम् स्वरः च अपि न्यरुध्यत || २-३६-१०

सा विषण्णा च सम्त्रस्ता कैकेयी वाक्यम् अब्रवीत् |
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् || २-३६-११

राज्यम् गत जनम् साधो पीत मण्डाम् सुराम् इव |
निरास्वाद्यतमम् शून्यम् भरतः न अभिपत्स्यते || २-३६-१२

कैकेय्याम् मुक्त लज्जायाम् वदन्त्याम् अतिदारुणम् |
राजा दशरथो वाक्यम् उवाच आयत लोचनाम् || २-३६-१३

वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते |
अनार्ये कृत्यमार्ब्धम् किम् न पूर्वमुपारुधः || २-३६-१४

तस्यैतत्क्रोधसम्युक्तमुक्तम् श्रुत्वा वराङ्गना |
कैकेयी द्वि गुणम् क्रुद्धा राजानम् इदम् अब्रवीत् || २-३६-१५

तव एव वंशे सगरः ज्येष्ठम् पुत्रम् उपारुधत् |
असमन्जैति ख्यातम् तथा अयम् गन्तुम् अर्हति || २-३६-१६

एवम् उक्तः धिग् इति एव राजा दशरथो अब्रवीत् |
व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत || २-३६-१७

तत्र वृद्धो महा मात्रः सिद्ध अर्थो नाम नामतः |
शुचिर् बहु मतः राज्ञः कैकेयीम् इदम् अब्रवीत् || २-३६-१८

असमन्जो गृहीत्वा तु क्रीडितः पथि दारकान् |
सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः || २-३६-१९

तम् दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् |
असमन्जम् वृषीण्व एकम् अस्मान् वा राष्ट्र वर्धन || २-३६-२०

तान् उवाच ततः राजा किम् निमित्तम् इदम् भयम् |
ताः च अपि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयो अब्रुवन् || २-३६-२१

क्रीडितः तु एष नः पुत्रान् बालान् उद्भ्रान्त चेतनः |
सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते || २-३६-२२

स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नर अधिप |
तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय चिकीर्षया || २-३६-२३

तम् यानम् श्रीघ्रमारोप्य सभार्यम् सपरिच्छदम् |
यावज्जीवम् विवास्योऽयमिति स्वानन्वशात् पिता || २-३६-२४

स फालपिटकम् गृह्य गिरिदुर्गान्यलोडयत् |
दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् || २-३६-२५

इति एवम् अत्यजद् राजा सगरः वै सुधार्मिकः |
रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते || २-३६-२६

न हि कंचन पश्यामो राघवस्यागुणम् वयम् |
दुर्लभो यस्य निरयः श्शाङ्कस्येव कल्मषम् || २-३६-२७

अथवा देवि दोषम् त्वं कंचित्पश्यसि राघवे |
तमद्य ब्रूहि तत्वैन तदा रोमो विवास्यताम् || २-३६-२८

अदुष्टस्य हि सम्त्यागः सत्पथे निरतस्य च |
निर्दहे दपि शक्रस्य द्युतिम् धर्मनिरोधनात् || २-३६-२९

तदलम् देवि रामस्य श्रिया विहतया त्वया |
लोकतोऽप् हि ते रक्ष्यः परिवादः शुभानने || २-३६-३०

श्रुत्वा तु सिद्ध अर्थ वचो राजा श्रान्ततर स्वनः |
शोक उपहतया वाचा कैकेयीम् इदम् अब्रवीत् || २-३६-३१

एतद्वचो नेच्छ्सि पापवृत्ते |
हितम् न जानासि ममात्मनो वा |
आस्थाय मार्गम् कृपणम् कुचेष्टा |
चेष्टा हि ते साधुपदादपेता || २-३६-३२

अनुव्रजिष्याम्य् अहम् अद्य रामम् |
राज्यम् परित्यज्य सुखम् धनम् च |
सह एव राज्ञा भरतेन च त्वम् |
यथा सुखम् भुन्क्ष्व चिराय राज्यम् || २-३६-३३

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे षत् त्रिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।