Ayodhya Kanda – Sarga 35 (Valmiki Ramayana)

Sumantra Rails at Kaikeyi

Valmiki Ramayana – Kanda 2 – Sarga 35

ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् |
पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च || २-३५-१
लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् |
कोपाभिभूतः सहसा सम्तापमशुभम् गतः || २-३५-२
मनः समीक्षमाणश्च सूतो दशरथस्य सः |
कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः || २-३५-३
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः |
कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत || २-३५-४

यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् |
भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च || २-३५-५
न ह्यकार्यतमम् किंचित् तव देवीह विद्यते |

पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः || २-३५-६
यन्म हेंद्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् |
महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः || २-३५-७

मावमंस्था दशरथम् भर्तारम् वरदम् पतिम् |
भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते || २-३५-८

यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये |
इक्ष्वाकुकुलनाथेऽस्मिंस्तल्लोपयितुमिच्छसि || २-३५-९

राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् |
वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति || २-३५-१०

न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति |
तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि || २-३५-११

नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् |
त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा || २-३५-१२
का प्रीती राज्यलाभेन तव देवि भविष्यति |
तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि || २-३५-१३

आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् |
आचरन्त्या न विदृता सद्यो भवति मेदिनी || २-३५-१४

महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना |
धिग्वाग्दण्डणा न हिंसन्ति रामप्रव्राजने स्थिताम् || २-३५-१५

आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः |
यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् || २-३५-१६

अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च |
न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः || २-३५-१७

तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् |
पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् || २-३५-१८
सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः |
तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः || २-३५-१९

ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा |
पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् || २-३५-२०

तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती |
हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् || २-३५-२१

नृपश्चोवाच ताम् देवीम् देवि शंसामि ते यदि |
ततो मे मरणम् सद्यो भविष्यति न संशयः || २-३५-२२

माता ते पितरम् देवि ततह् केकयमब्रवीत् |
शंस मे जीव वा मा वा न मामपहसिष्यसि || २-३५-२३

प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः |
तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः || २-३५-२४

ततः स वरदह् साधु राजानम् प्रत्यभाषत |
म्रियताम् ध्वंसताम् वेयम् मा कृथास्त्वम् महीपते || २-३५-२५

स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः |
मातरम् ते निरस्याशु विजहार कुबेरवत् || २-३५-२६

तथा त्वमपि राजानम् दुर्जनाचरिते पथि |
असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि || २-३५-२७

सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा |
पित्ऱ्^ऊन् समनुजायन्ते नरा मातरमङ्गनाः || २-३५-२८

नैवम् भव ग़ृहाणेदम् यदाह वसुधाधिपः |
भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव || २-३५-२९

मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् |
भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः || २-३५-३०

न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः |
श्रीमान्दशरथो राजा देवि राजीवलोचनः || २-३५-३१

ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता |
रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् || २-३५-३२

परिवादो हि ते देवि महान्लोके चरिष्यति |
यदि रामो वनम् याति विहाय पितरम् नृपम् || २-३५-३३

स राज्यम् राघवः पातु भवत्वम् विगतज्वरा |
न हि ते राघवादन्यः क्षमः पुरवरे वसेत् || २-३५-३४

रामे हि यौवराज्यस्थे राजा दशरथो वनम् |
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् || २-३५-३५

इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसंसदि |
सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः || २-३५-३६

नैवसाक्षुभ्यते देवी न च स्म परिदूयते |
न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा || २-३५-३७

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे पंच त्रिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।