Rama consoles Dasaratha
Valmiki Ramayana – Kanda 2 – Sarga 34
ततःकमलपत्राक्षः श्यामो निरुपमो महान् |
उवाच रामस्तम् सूतं पितुराख्याहि मामिति || २-३४-१
स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः |
प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह || २-३४-२
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्|
तटाकमिव निस्तोयमपश्यज्जगतीपतिम्|| २-३४-३
आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् |
रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् || २-३४-४
तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा|
भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् || २-३४-५
अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः |
ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् || २-३४-६
स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः |
सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते || २-३४-७
गमिष्यति महा अरण्यम् तम् पश्य जगती पते |
वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः || २-३४-८
स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः |
आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् || २-३४-९
सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः |
दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् || २-३४-१०
सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् |
आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् || २-३४-११
एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया |
प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् || २-३४-१२
अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः |
कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः || २-३४-१३
आगतेषु च दारेषु समवेक्ष्य मही पतिः |
उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् || २-३४-१४
स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा |
जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः || २-३४-१५
स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् |
उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः || २-३४-१६
सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः |
तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः || २-३४-१७
तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः |
विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा || २-३४-१८
स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि |
हाहा राम इति सहसा भूषण ध्वनि मूर्चितः || २-३४-१९
तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ |
पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् || २-३४-२०
अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् |
उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् || २-३४-२१
आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः |
प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् || २-३४-२२
लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् |
कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः || २-३४-२३
अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद |
लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः || २-३४-२४
प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः |
उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् || २-३४-२५
अहम् राघव कैकेय्या वर दानेन मोहितः |
अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् || २-३४-२६
एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः |
प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः || २-३४-२७
भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः |
अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् || २-३४-२८
नव पञ्च च वर्षाणि वनवासे विहृत्य ते |
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः || २-३४-२९
रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः |
कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् || २-३४-३०
श्रेयसे वृद्धये तात पुनर् आगमनाय च |
गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् || २-३४-३१
न हि सत्यात्मनस्तात धर्माभिमनसस्तव |
विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन || २-३४-३२
अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा |
मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् || २-३४-३३
मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् |
तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि || २-३४-३४
दुष्करम् क्रियते पुत्र सर्वथा राघव तया |
मत्प्रियार्थम् प्रियांस्त्यक्त्वा यद्यासि विजनम् वनम् || २-३४-३५
न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव |
छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया || २-३४-३६
पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि |
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः || २-३४-३७
न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम |
अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि || २-३४-३८
अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् |
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् || २-३४-३९
प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति |
अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे || २-३४-४०
इयम् सराष्ट्रा सजना धन धान्य समाकुला |
मया विसृष्टा वसुधा भरताय प्रदीयताम् || २-३४-४१
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति |
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया || २-३४-४२
दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव |
अहम् निदेशम् भवतो यथोक्तमनुपालयन् || २-३४-४३
चतुर्दश समा वत्स्ये वने वनचरैः सह |
मा विमर्शो वसुमती भरताय प्रदीयताम् || २-३४-४४
न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् |
यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन || २-३४-४५
अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः |
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः || २-३४-४६
न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् |
त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ || २-३४-४७
त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ |
प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे || २-३४-४८
न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो |
स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः || २-३४-४९
अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव |
मया चोक्तं प्रजामीति तत्सत्यमनुपालये || २-३४-५०
मा चोत्कण्थां कृथा देव वने रंस्यामहे वयम् |
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते || २-३४-५१
पिता हि दैवतम् तात देवतानामपि स्मृतम् |
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः || २-३४-५२
चतुर्धशसु वर्षेषु गतेषु नरसत्तम |
पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् || २-३४-५३
येन संस्तम्भनीयोऽयम् सर्वो बाष्पगळो जनः |
स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः || २-३४-५४
पुरम् च राष्ट्रम् च मही च केवला |
मया निसृष्टा भरताय दीयताम् |
अहम् निदेशम् भवतः अनुपालयन् |
वनम् गमिष्यामि चिराय सेवितुम् || २-३४-५५
मया निसृष्टाम् भरतः महीम् इमाम् |
सशैल खण्डाम् सपुराम् सकाननाम् |
शिवाम् सुसीमाम् अनुशास्तु केवलम् |
त्वया यद् उक्तम् नृपते यथा अस्तु तत् || २-३४-५६
न मे तथा पार्थिव धीयते मनो |
महत्सु कामेषु न च आत्मनः प्रिये |
यथा निदेशे तव शिष्ट सम्मते |
व्यपैतु दुह्खम् तव मत् कृते अनघ || २-३४-५७
तत् अद्य न एव अनघ राज्यम् अव्ययम् |
न सर्व कामान् न सुखम् न मैथिलीम् |
न जीवितम् त्वाम् अनृतेन योजयन् |
वृणीय सत्यम् व्रतम् अस्तु ते तथा || २-३४-५८
फलानि मूलानि च भक्षयन् वने |
गिरीमः च पश्यन् सरितः सरांसि च |
वनम् प्रविश्य एव विचित्र पादपम् |
सुखी भविष्यामि तव अस्तु निर्वृतिः || २-३४-५९
एवम् स राजा व्यसनाभिपन्नः |
शोकेन दुःखेन च ताम्यमानः |
आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो |
मोहम् गतो नैव चिचेश्ट किंचित् || २-३४-६०
देव्यस्ततः सम्रुरुदुः समेता |
स्ताम् वर्जयित्वा नरदेवपत्नीम् |
रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् |
हा हा कृतम् तत्र बभूव सर्वम् || २-३४-६१
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे चतुर् त्रिंशः सर्गः ||