Ayodhya Kanda – Sarga 33 (Valmiki Ramayana)

Rama pays respects to his father at departure

Valmiki Ramayana – Kanda 2 – Sarga 33

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु |
जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ || २-३३-१

ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे |
माला दामभिर् आसक्ते सीतया समलम्कृते || २-३३-२

ततः प्रासाद हर्म्याणि विमान शिखराणि च |
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् || २-३३-३

न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः |
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् || २-३३-४

पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः |
ऊचुर् बहु विधा वाचः शोक उपहत चेतसः || २-३३-५

यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् |
तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः || २-३३-६

ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः |
न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् || २-३३-७

या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि |
ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः || २-३३-८

अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् |
वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् || २-३३-९

अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते |
न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति || २-३३-१०

निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् |
किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् || २-३३-११

आनृशंस्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः |
राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् || २-३३-१२

तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः |
औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् || २-३३-१३

पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः |
मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः || २-३३-१४

मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः |
पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः || २-३३-१५

ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः |
गच्चन्तम् अनुगच्चामः येन गच्चति राघवः || २-३३-१६

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च |
एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् || २-३३-१७

समुद्धृत निधानानि परिध्वस्त अजिराणि च |
उपात्त धन धान्यानि हृत साराणि सर्वशः || २-३३-१८
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः |
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च || २-३३-१९
अपेतोदकधूमानि हीनसम्मार्जनानि च |
प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च || २-३३-२०
दुष्कालेनेव भग्नानि भिभाजनवन्ति च |
अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् || २-३३-२१

वनम् नगरम् एव अस्तु येन गच्चति राघवः |
अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् || २-३३-२२

बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः |
अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च || २-३३-२३
इति एवम् विविधा वाचो नाना जन समीरिताः |

तृणमांसफलादानाम् देशम् व्यालमृगद्विजम् || २-३३-२४
प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः |
राघावेण वने सर्वे सह वत्स्याम निर्वृताः || २-३३-२५

इत्येवम् विविधा वाचो नानाजनसमीरिताः|
शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् || २-३३-२६

स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् |
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः || २-३३-२७

विनीतवीरपुरुषं प्रविश्य तु नृपालयम् |
ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः || २-३३-२८

प्रतीक्षमाणो अभिजनम् तदा आर्तम् |
अनार्त रूपः प्रहसन्न् इव अथ|
जगाम रामः पितरम् दिदृक्षुः |
पितुर् निदेशम् विधिवच् चिकीर्षुः || २-३३-२९

तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा |
रामः गमिष्यन् वनम् आर्त रूपम् |
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् |
पितुर् महात्मा प्रतिहारण अर्थम् || २-३३-३०

पितुर्निदेशेन तु धर्मवत्सलो |
वन प्रवेशे कृत बुद्धि निश्चयः |
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् |
निवेदयस्व आगमनम् नृपाय मे || २-३३-३१

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे त्रयः त्रिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।