Ayodhya Kanda – Sarga 30 (Valmiki Ramayana)

Rama agrees to take Seetha to the forest

Valmiki Ramayana – Kanda 2 – Sarga 30

सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा |
वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् || २-३०-१

सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् |
प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् || २-३०-२

किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः |
राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् || २-३०-३

अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति |
तेजो न अस्ति परम् रामे तपति इव दिवा करे || २-३०-४

किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते |
यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् || २-३०-५

द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् |
सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् || २-३०-६

न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ |
त्वया राघव गच्चेयम् यथा अन्या कुल पांसनी || २-३०-७

स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् |
शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि || २-३०-८

यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे |
त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ|| २-३०-९

स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि |
तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया || २-३०-१०

न च मे भविता तत्र कश्चित् पथि परिश्रमः |
पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि || २-३०-११

कुश काश शर इषीका ये च कण्टकिनो द्रुमाः |
तूल अजिन सम स्पर्शा मार्गे मम सह त्वया || २-३०-१२

महा वात समुद्धूतम् यन् माम् अवकरिष्यति |
रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् || २-३०-१३

शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा |
कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः || २-३०-१४

पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु |
दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् || २-३०-१५

न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः |
आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च || २-३०-१६

न च तत्र गतः किंचित् द्रष्टुम् अर्हसि विप्रियम् |
मत् कृते न च ते शोको न भविष्यामि दुर्भरा || २-३०-१७

यः त्वया सह स स्वर्गो निरयो यः त्वया विना |
इति जानन् पराम् प्रीतिम् गच्च राम मया सह || २-३०-१८

अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि |
विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् || २-३०-१९

पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् |
उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् || २-३०-२०

इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे |
किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता || २-३०-२१

इति सा शोक सम्तप्ता विलप्य करुणम् बहु |
चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् || २-३०-२२

सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना |
चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः || २-३०-२३

तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् |
नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् || २-३०-२४

तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् |
पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् || २-३०-२५

ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् |
उवाच वचनम् रामः परिविश्वासयंस् तदा || २-३०-२६

न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये |
न हि मे अस्ति भयम् किंचित् स्वयम्भोर् इव सर्वतः || २-३०-२७

तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने |
वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे || २-३०-२८

यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि |
न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा || २-३०-२९

धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा |
तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला || २-३०-३०

न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि |
वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् || २-३०-३१

एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता |
अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे || २-३०-३२

अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते |
स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् || २-३०-३३

यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि |
नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते || २-३०-३४

न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः |
तथा बलकराः सीते यथा सेवा पितुर्मता || २-३०-३५

स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च |
गुरुवृत्त्यनुरोधेन न किंचित्\dapi दुर्लभम् || २-३०-३६

देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् |
प्राप्नुवन्ति महात्मानो मातापितृपरायणाः || २-३०-३७

स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः |
तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः || २-३०-३८

मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् |
वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता || २-३०-३९

सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे |
अनुगच्चस्व माम् भीरु सह धर्म चरी भव || २-३०-४०

सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च |
व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् || २-३०-४१

आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः |
नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते || २-३०-४२

ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् |
देहि च आशंसमानेभ्यः सम्त्वरस्व च माचिरम् || २-३०-४३

भूषणानि महार्हाणि वरवस्त्राणि यानि च |
रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः || २-३०-४४
शयनीयानि यानानि मम चान्यानि यानि च |
देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् || २-३०-४५

अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः |
क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे || २-३०-४६

ततः प्रहृष्टा परिपूर्ण मानसा |
यशस्विनी भर्तुर् अवेक्ष्य भाषितम् |
धनानि रत्नानि च दातुम् अन्गना |
प्रचक्रमे धर्मभृताम् मनस्विनी || २-३०-४७

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे त्रिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।