Rama lets Seetha know of King’s wish
Valmiki Ramayana – Kanda 2 – Sarga 26
अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् |
कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः || २-२६-१
विराजयन् राज सुतः राज मार्गम् नरैः वृतम् |
हृदयानि आममन्थ इव जनस्य गुणवत्तया || २-२६-२
वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी |
तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् || २-२६-३
देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना |
अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते || २-२६-४
प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् |
प्रहृष्ट जन सम्पूर्णम् ह्रिया किंचित् अवान् मुखः || २-२६-५
अथ सीता समुत्पत्य वेपमाना च तम् पतिम् |
अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् || २-२६-६
ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् |
तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः || २-२६-७
विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् |
आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो || २-२६-८
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव |
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः || २-२६-९
न ते शत शलाकेन जल फेन निभेन च |
आवृतम् वदनम् वल्गु चत्रेण अभिविराजते || २-२६-१०
व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् |
चन्द्र हंस प्रकाशाभ्याम् वीज्यते न तव आननम् || २-२६-११
वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ |
स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः || २-२६-१२
न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः |
मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः || २-२६-१३
न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः |
अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा || २-२६-१४
चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः |
मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः || २-२६-१५
न हस्ती च अग्रतः श्रीमांस् तव लक्षण पूजितः |
प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः || २-२६-१६
न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन |
भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् || २-२६-१७
अभिषेको यदा सज्जः किम् इदानीम् इदम् तव |
अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते || २-२६-१८
इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः |
सीते तत्रभवांस् तात प्रव्राजयति माम् वनम् || २-२६-१९
कुले महति सम्भूते धर्मज्ञे धर्म चारिणि |
शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम || २-२६-२०
राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे |
कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ || २-२६-२१
तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते |
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः || २-२६-२२
चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया |
पित्रा मे भरतः च अपि यौवराज्ये नियोजितः || २-२६-२३
सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् |
भरतस्य समीपे ते न अहम् कथ्यः कदाचन || २-२६-२४
ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् |
तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम || २-२६-२५
न अपि त्वम् तेन भर्तव्या विशेषेण कदाचन
अनुकूलतया शक्यम् समीपे तस्य वर्तितुम् || २-२६-२६
तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् |
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः || २-२६-२७
अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् |
वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि || २-२६-२८
याते च मयि कल्याणि वनम् मुनि निषेवितम् |
व्रत उपवास रतया भवितव्यम् त्वया अनघे || २-२६-२९
काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि |
वन्दितव्यो दशरथः पिता मम नर ईश्वरः || २-२६-३०
माता च मम कौसल्या वृद्धा सम्ताप कर्शिता |
धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति || २-२६-३१
वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः |
स्नेह प्रणय सम्भोगैः समा हि मम मातरः || २-२६-३२
भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः |
त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम || २-२६-३३
विप्रियम् न च कर्तव्यम् भरतस्य कदाचन |
स हि राजा प्रभुः चैव देशस्य च कुलस्य च || २-२६-३४
आराधिता हि शीलेन प्रयत्नैः च उपसेविताः |
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये || २-२६-३५
औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः |
समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः || २-२६-३६
सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी |
भरतस्य रता धर्मे सत्यव्रतपरायणा || २-२६-३७
अहम् गमिष्यामि महा वनम् प्रिये |
त्वया हि वस्तव्यम् इह एव भामिनि |
यथा व्यलीकम् कुरुषे न कस्यचित् |
तथा त्वया कार्यम् इदम् वचो मम || २-२६-३८
|| इति श्रि मद्रामयणे अयोध्यकाण्डे षड्विंशः सर्गः ||
3 thoughts on “Ayodhya Kanda – Sarga 26 (Valmiki Ramayana)”
Hotwinslotcasino, that’s a catchy brand name. If your slot is hot, this is the place you want to be in. See website hotwinslotcasino now.
Yo! pak77gamedownload got the latest games. Downloading now! Let’s see if it lives up to the hype though. pak77gamedownload
Gave the phbetvipapp a shot today. Not bad! Quick and easy to navigate. Worth checking out if you’re into betting. phbetvipapp