Kausalya bids farewell to Rama
Valmiki Ramayana – Kanda 2 – Sarga 25
सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि |
चकार माता रामस्य मन्गलानि मनस्विनी || २-२५-१
न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम |
श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे || २-२५-२
यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च |
सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु || २-२५-३
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च |
ते च त्वामभिरक्षन्तु वने सह महर्षिभिः || २-२५-४
यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता |
तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा || २-२५-५
पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा |
सत्येन च महाबाहो चिरम् जीवाभिरक्षितः || २-२५-६
समित्कुशपवित्राणि वेद्यश्चायतनानि च |
स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः || २-२५-७
पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम |
स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः || २-२५-८
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा |
ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः || २-२५-९
ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः |
दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा || २-२५-१०
स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः |
स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः || २-२५-११
सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः |
याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः || २-२५-१२
स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः |
शैलाः सर्वे समुद्राश्च राजा वरुण एव च || २-२५-१३
द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च |
नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः || २-२५-१४
अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् |
ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा || २-२५-१५
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते |
महा वनानि चरतः मुनि वेषस्य धीमतः || २-२५-१६
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा |
राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् || २-२५-१७
क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् |
प्लवगा वृश्चिका दंशा मशकाः चैव कानने || २-२५-१८
सरी सृपाः च कीटाः च मा भूवन् गहने तव |
महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः || २-२५-१९
महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक |
नृ मांस भोजना रौद्रा ये च अन्ये सत्त्व जातयः || २-२५-२०
मा च त्वाम् हिंसिषुः पुत्र मया सम्पूजिताः तु इह |
आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः || २-२५-२१
सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक |
स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः || २-२५-२२
सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः |
गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा || २-२५-२३
पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् |
अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः || २-२५-२४
उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन |
सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः || २-२५-२५
ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् |
इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी || २-२५-२६
स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना |
ज्वलनम् समुपादाय ब्राह्मणेन महात्मना || २-२५-२७
हावयामास विधिना राममङ्गलकारणात् |
घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् || २-२५-२८
उपसम्पादयामास कौसल्या पमाङ्गना |
उपाध्यायः स विधिना हुत्व शान्तिमनामयम् || २-२५-२९
हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् |
मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः || २-२५-३०
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः |
ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी || २-२५-३१
दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् |
यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते || २-२५-३२
वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् |
यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा || २-२५-३३
अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् |
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् || २-२५-३४
अदितिर्मङ्गळम् प्रादात् तत्ते भवतु मङ्गळम् |
तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः || २-२५-३५
यदासीन्मङ्गळम् प्रादात् तत्ते भवतु मङ्गळम् |
ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते || २-२५-३६
मम्गळानि महाबाहो दिशन्तु शुभवङ्गळाः |
इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी || २-२५-३७
गन्दांश्चापि समालभ्य राममायतलो चना |
ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् || २-२५-३८
चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च |
उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी || २-२५-३९
वाङ्मात्रेण न भावेन वाचा संसज्जमानया |
आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी || २-२५-४०
अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् |
अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् || २-२५-४१
पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि |
प्रणष्ठदुःखसंकल्पा हर्षविद्योतितानना || २-२५-४२
द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् |
भद्रासनगतम् राम वनवासादिहागतम् || २-२५-४३
द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः |
मङ्गशैरुपसम्पन्नो वनवासादिहागतः || २-२५-४४
पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः |
मया अर्चिता देव गणाः शिव आदयो |
महर्षयो भूत महा असुर उरगाः |
अभिप्रयातस्य वनम् चिराय ते|
हितानि कान्क्षन्तु दिशः च राघव || २-२५-४५
इति इव च अश्रु प्रतिपूर्ण लोचना|
समाप्य च स्वस्त्ययनम् यथा विधि |
प्रदक्षिणम् चैव चकार राघवम् |
पुनः पुनः च अपि निपीड्य सस्वजे || २-२५-४६
तथा तु देव्या स कृत प्रदक्षिणो |
निपीड्य मातुः चरणौ पुनः पुनः |
जगाम सीता निलयम् महा यशाः |
स राघवः प्रज्वलितः स्वया श्रिया || २-२५-४७
|| इति रामयने अयोध्य कान्द पन्चविंसः सर्ग ||
6 thoughts on “Ayodhya Kanda – Sarga 25 (Valmiki Ramayana)”
PH88 Casino, eh? Heard they got some tight slots. Good luck out there folks! ph88 casino
I spent an evening checking out ae88ael1. It has a distinctive aesthetic. I found a few interesting games. Take a look at their platform through ae88ael1 to form your owm opinion.
So I did some digging and, from what I can tell, ppgaming is legit. They use standard security measures and haven’t spotted anything dodgy. You can explore it to decide for yourself at ppgaming is legit.
Been messing around on phplus casino recently. The casino games are pretty decent, nothing ground breaking but enjoyable enough. Give it a whirl if you’re bored! More fun here phplus casino.
Okay I am assuming you meant Winbet, But anyway, I’m looking into Winbey or Winbet! I hope the promotions are really generous than other casino, I’m gonna check winbey offers before I sign up! Let’s see if they’re worth a gamble!
Alright peeps, just seen this 69vnm floating around. Looks kinda dodgy, I reckon. Do your research before you dive in. Here it is anyway 69vnm