Rama tries to pacify Lakshmana further
Valmiki Ramayana – Kanda 2 – Sarga 22
अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् |
श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् || २-२२-१
आसद्य रामः सौमित्रिम् सुह्ऱ्दम् भ्रातरम् प्रियम् |
उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् || २-२२-२
निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् |
अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् || २-२२-३
उपक्लुप्तम् हि यत्किंचिदभिषेकार्थमद्य मे |
स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् || २-२२-४
सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः |
अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः || २-२२-५
यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते |
माता नः सा यथा न स्यात् सविशन्का तथा कुरु || २-२२-६
तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे |
मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् || २-२२-७
न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन |
मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् || २-२२-८
सत्यः सत्य अभिसंधः च नित्यम् सत्य पराक्रमः |
पर लोक भयात् भीतः निर्भयो अस्तु पिता मम || २-२२-९
तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्ऱ्ते |
सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् || २-२२-१०
अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण |
अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः || २-२२-११
मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा |
सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः || २-२२-१२
मयि चीर अजिन धरे जटा मण्डल धारिणि |
गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् || २-२२-१३
बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् |
तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् || २-२२-१४
कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने |
राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने || २-२२-१५
कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने |
यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् || २-२२-१६
जानासि हि यथा सौम्य न मातृषु मम अन्तरम् |
भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा || २-२२-१७
सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः |
उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये || २-२२-१८
कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा |
ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ || २-२२-१९
यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते |
व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः || २-२२-२०
कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् |
यस्य न ग्रहणम् किंचित् कर्मणो अन्यत्र दृश्यते || २-२२-२१
सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ |
यस्य किंचित् तथा भूतम् ननु दैवस्य कर्म तत् || २-२२-२२
ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः |
उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः || २-२२-२३
असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते |
निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् || २-२२-२४
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना |
व्याहते अपि अभिषेके मे परितापो न विद्यते || २-२२-२५
तस्मात् अपरितापः संस् त्वम् अपि अनुविधाय माम् |
प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् || २-२२-२६
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः |
मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति || २-२२-२७
अथवा किम् ममैतेन राजद्रव्यमयेन तु |
उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति || २-२२-२८
मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये |
राज्यम् वा वनवासो वा वनवासो महोदयः || २-२२-२९
न लक्ष्मण अस्मिन् मम राज्य विघ्ने |
माता यवीयस्य् अतिशन्कनीया |
दैव अभिपन्ना हि वदन्ति अनिष्टम् |
जानासि दैवम् च तथा प्रभावम् || २-२२-३०
|| इत्यार्षे श्र्रिमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्वाविंशः सरगः ||