Ayodhya Kanda – Sarga 18 (Valmiki Ramayana)

Kaikeyi’s harsh words

Valmiki Ramayana – Kanda 2 – Sarga 18

स ददर्श आसने रामः निषण्णम् पितरम् शुभे |
कैकेयी सहितम् दीनम् मुखेन परिशुष्यता || २-१८-१

स पितुः चरणौ पूर्वम् अभिवाद्य विनीतवत् |
ततः ववन्दे चरणौ कैकेय्याः सुसमाहितः || २-१८-२

राम इति उक्त्वा च वचनम् वाष्प पर्याकुल ईक्षणः |
शशाक न्ऱ्पतिर् दीनो न ईक्षितुम् न अभिभाषितुम् || २-१८-३

तत् अपूर्वम् नर पतेर् द्ऱ्ष्ट्वा रूपम् भय आवहम् |
रामः अपि भयम् आपन्नः पदा स्प्ऱ्ष्ट्वा इव पन्नगम् || २-१८-४

इन्द्रियैः अप्रह्ऱ्ष्टैअः तम् शोक सम्ताप कर्शितम् |
निह्श्वसन्तम् महा राजम् व्यथित आकुल चेतसम् || २-१८-५
ऊर्मि मालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् |
उपप्लुतम् इव आदित्यम् उक्त अन्ऱ्तम् ऱ्षिम् यथा || २-१८-६

अचिन्त्य कल्पम् हि पितुस् तम् शोकम् उपधारयन् |
बभूव सम्रब्धतरः समुद्रैव पर्वणि || २-१८-७

चिन्तयाम् आस च तदा रामः पित्ऱ् हिते रतः |
किंस्विद् अद्य एव न्ऱ्पतिर् न माम् प्रत्यभिनन्दति || २-१८-८

अन्यदा माम् पिता द्ऱ्ष्ट्वा कुपितः अपि प्रसीदति |
तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते || २-१८-९

स दीनैव शोक आर्तः विषण्ण वदन द्युतिः |
कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत् || २-१८-१०

कच्चिन् मया न अपराधम् अज्ञानात् येन मे पिता |
कुपितः तन् मम आचक्ष्व त्वम् चैव एनम् प्रसादय || २-१८-११

अप्रसन्नमनाः किम् नु सदा मां प्रति वत्सलः |
विवर्ण वदनो दीनो न हि माम् अभिभाषते || २-१८-१२

शारीरः मानसो वा अपि कच्चित् एनम् न बाधते |
सम्तापो वा अभितापो वा दुर्लभम् हि सदा सुखम् || २-१८-१३

कच्चिन् न किंचित् भरते कुमारे प्रिय दर्शने |
शत्रुघ्ने वा महा सत्त्वे मात्ऱ्ऱ्णाम् वा मम अशुभम् || २-१८-१४

अतोषयन् महा राजम् अकुर्वन् वा पितुर् वचः |
मुहूर्तम् अपि न इच्चेयम् जीवितुम् कुपिते न्ऱ्पे || २-१८-१५

यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः |
कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते || २-१८-१६

कच्चित् ते परुषम् किंचित् अभिमानात् पिता मम |
उक्तः भवत्या कोपेन यत्र अस्य लुलितम् मनः || २-१८-१७

एतत् आचक्ष्व मे देवि तत्त्वेन परिप्ऱ्च्चतः |
किम् निमित्तम् अपूर्वो अयम् विकारः मनुज अधिपे || २-१८-१८

एवमुक्ता तु कैकेयी राघवेण महात्मना |
उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः || २-१८-१९

न राजा कुपितो राम व्यसनम् नास्य किंचन |
किंचिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते || २-१८-२०

प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्योपपर्तते |
तदवश्यम् त्वया कार्यम् यदनेनाश्रुतम् मम || २-१८-२१

एष मह्यम् वरम् दत्त्वा पुरा मामभिपूज्य च |
स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा || २-१८-२२

अतिसृज्य ददानीति वरम् मम विशाम्पतिः |
स निरर्थं गतजले सेतुम् बन्धितुमिच्छति || २-१८-२३

धर्मूलमिदम् राम विदितम् च सतामपि |
तत्सत्यम् न त्यजेद्राजा कुपितस्त्वत्कृते यथा || २-१८-२४

यदि तद्वक्ष्यते राजा शुभम् वा यदि वाऽशुभम् |
करिष्यसि ततः सर्वमाख्यामि पुनस्त्वहम् || २-१८-२५

यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते |
ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति || २-१८-२६

एतात्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् |
उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ || २-१८-२७

अहो धिङ्नार्हसे देवि पक्तुं मामीदृशं वचः |
अहम् हि वचनात् राज्ञः पतेयम् अपि पावके || २-१८-२८
भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे |
नियुक्तः गुरुणा पित्रा न्ऱ्पेण च हितेन च || २-१८-२९

तत् ब्रूहि वचनम् देवि राज्ञो यद् अभिकान्क्षितम् |
करिष्ये प्रतिजाने च रामः द्विर् न अभिभाषते || २-१८-३०

तम् आर्जव समायुक्तम् अनार्या सत्य वादिनम् |
उवाच रामम् कैकेयी वचनम् भ्ऱ्श दारुणम् || २-१८-३१

पुरा देव असुरे युद्धे पित्रा ते मम राघव |
रक्षितेन वरौ दत्तौ सशल्येन महा रणे || २-१८-३२

तत्र मे याचितः राजा भरतस्य अभिषेचनम् |
गमनम् दण्डक अरण्ये तव च अद्य एव राघव || २-१८-३३

यदि सत्य प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्चसि |
आत्मानम् च नर रेष्ठ मम वाक्यम् इदम् श्ऱ्णु || २-१८-३४

स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् |
त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पन्च च || २-१८-३५

भरतस्त्वभिषिच्येत यदेतदभिषेचन्म् |
त्वदर्थे विहितम् राज्ञा तेन सर्वेण राघव || २-१८-३६

सप्त सप्त च वर्षाणि दण्डक अरण्यम् आश्रितः |
अभिषेकम् इमम् त्यक्त्वा जटा चीर धरः वस || २-१८-३७

भरतः कोसल पुरे प्रशास्तु वसुधाम् इमाम् |
नाना रत्न समाकीर्णम् सवाजि रथ कुन्जराम् || २-१८-३८

एतेन त्वां नरेन्द्रोयम् कारुण्येन समाप्लुतः |
शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् || २-१८-३९

एतत्कुरु नरेन्ध्रस्य वचनं रघुनन्दन |
सत्यन महता राम तारयस्व नरेश्वरम् || २-१८-४०

इतीव तस्यां परुषम् वदन्त्याम् |
नचैव रामः प्रविवेश शोकम् |
प्रविव्यधे चापि महानुभावो |
राजा तु पुत्रव्यसनाभितप्तः || २-१८-४१

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे अष्टादशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।