Jubilant city of Ayodhya
Valmiki Ramayana – Kanda 2 – Sarga 16
स तदंतःपुरद्वारं समतीत्य जनाकुलम् |
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् || २-१६-१
प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः |
अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् || २-१६-२
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वमंकृतान् |
ददर्शविष्ठितान् द्वारि स्त्रध्यक्षान् सुसमाहितान् || २-१६-३
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः |
सहसोत्पतिताः सर्वे ह्यसनेभ्यः ससम्भ्रमाः || २-१६-४
तानुवाच विनीतात्मा सूतपुत्रः प्ररक्षिणः |
क्षिप्रमाख्यात रामाय सुमन्त्रे द्वारि तिष्ठति || २-१६-५
ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः |
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे || २-१६-६
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः |
तत्रैवानाययामास राघवः पियकाम्यया || २-१६-७
तं वैश्रवणसंकाशमुपविष्टुं स्वलंकृतम् |
ददर्श सूतः पर्यङ्गे ससैवर्णे सोत्तरच्छदे || २-१६-८
वराहरुघिराभेण शुचिना च सुगन्धिना |
अनुलिप्तं पराघर्येन चन्दनेन परंतपम् || २-१२-९
स्थितया पार्श्वतश्चापि वालव्यजनहस्तयास्थितया पार्श्वतश्चापि |
उपेतं सीतया भूयः चित्रया शशिनं यथा || २-१६-१०
तं तपन्तमिवादित्यम्पपन्नं स्वतेजसा |
ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् || २-१६-११
प्राञ्जलिः ससुमुखं दृष्ट्वा विहारशयनासने |
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः || २-१६-१२
कौसल्या सुप्रभा राम पिता त्वं द्रष्टुमिच्छति |
महिष्यापि हि कैकेय्या गम्यताम् तत्र माचिरम् || २-१६-१३
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः |
ततः सम्मानयाम् सीतामिदमुवाच ह || २-१६-१४
देवि देवश्च देवी च समागम्य मदंतरे |
मन्त्रेयेते ध्रुवं किंचित् अभिषेचन संहितम् || २-१६-१५
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा |
संचोदयति राजानं मदर्थ मसितेक्षणा || २-१६-१६
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी |
जननी चार्थकामा मे केकयाधिपतेस्सुता || २-१६-१७
दिष्ट्या खलु महाराजो महिष्या प्रियया सह |
सुमन्त्रं प्रहिणोद् दूतमर्थकामकरं मम || २-१६-१८
यादृशी परिषत् तत्र तादृशो दूताअगतः |
ध्रुवमधैव मां राजा यौवराज्येऽभिषेक्ष्यति || २-१६-१९
हन्त शिघ्रमितो जत्वा द्रक्ष्यामि च महिपतिम् |
सह त्वं परिवारेण सुखमास्स्व रमस्व च || २-१६-२०
पतिसम्मानिता सीता भर्तारम्असितक्षणा |
आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी || २-१६-२१
राज्यं द्विजतिभीर्जुष्टं राजसूयभिषेचनम् |
कर्तुमर्हति ते राजा वासवस्येव लोककृत् || २-१६-२२
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् |
कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् || २-१६-२३
पुर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः |
वरुणः पाश्चिमामाशां धनेशस्तुत्तरं दिशम् || २-१६-२४
अथ सीतामनुज्ञाप्य कृतकौतुकमगळः |
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् || २-१६-२५
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः |
लक्ष्मणंद्वारि सोऽपश्यत् प्रह्वञ्जलिपुटं स्थितम् || २-१६-२६
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः |
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च || २-१६-२७
ततः पावकसंकाशमारुरोह रथोत्तमम् |
वैयाघ्रं पुरुष्व्याघो राजितं राजनंदनः || २-१६-२८
मेघनादमसम्बाधं मणिहेमविभूशितम् |
मुष्णन्तम् इव चक्षूंषि प्रभया मेरुवर्चसम् || २-१६-२९
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः |
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् || २-१६-३०
प्रययौ तूरमास्थाय राघवो ज्वलितः श्रिया |
स पर्जन्य इवाकाशे स्वनवानभिनादयन् || २-१६-३१
निकेतान्निर्ययौ श्रिमान् महाभ्रादिव चन्द्रमाः |
चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ||२-१६-३२
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः |
ततो हलहलाशब्दस्तुमुलह् समजायत ||२-१६-३३
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः |
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः || २-१६-३४
अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः |
अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः || २-१६-३५
खड्गचापधराः शूरा जग्मुराशंसवो जनाः |
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ||२-१६-३६
सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि |
हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः || २-१६-३७
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः |
रामं सर्वानवद्याण्ग्यो रामपिप्रीषया ततः || २-१६-३८
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे |
नूनं नन्दति ते माता कौसल्या मातृनन्दन || २-१६-३९
पश्यन्ती सिद्धयात्रं त्वं पित्र्यं राज्यमुपस्थितम् |
सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम् || २-१६-४०
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् |
तया सुचरितं देव्या पुरा नूनं महत्तपः || २-१६-४१
रोहिणीव शशाङ्केन रामसंयोगमाप या |
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः || २-१६-४२
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः |
स राघवस्त्रत्र तदा प्रलापान् |
शुश्राव लोकस्य समागतस्य |
आत्माधिकारा विविधाश्च वाचः |
प्रहृष्टरूपस्य पुरे जनस्य || २-१६-४३
एष श्रियं गच्छति राघवोऽद्य|
राजप्रसादातद् विपुलं गमिष्यन् |
एते वयम् सर्वसमृद्धकामा|
योषामयं नो भविता प्रशास्ता || २-१६-४४
लाभो जनस्यास्य यदेष सर्वं|
प्रपत्स्यते राष्ट्रमिदं चिराय |
न ह्यप्रियं किंचन जातु कश्चित् |
पश्येन्न कुःखं मनुजादिपेऽस्मिन् || २-१६-४५
स घोषवद्भिश्च हयैः सनागैः |
पुरस्सरैः स्वस्तिकसूतमागधैः |
महीयमानः प्रवरैश्च वादकैः |
अभिष्टुतो वैश्रवणो यथा ययौ|| २-१६-४६
करेणुमात्ङ्गरथाश्वसंकुलं |
महाजनौघैः परिपूर्णचत्वरम् |
प्रभूतरत्नं बहुपण्यसंचयं |
ददर्श रामो विमलं महापथम् || २-१६-४७
|| इति श्रिमद् ऱमयने षोडश सर्गः ||