Dasaratha’s grief and anguish
Valmiki Ramayana – Kanda 2 – Sarga 13
अतदर्हं महाराजं शयानम् सयानमतथोचितम् |
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् || २-१३-१
अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी |
पुनराकारयामास तमेव वरमङ्गना || २-१३-२
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः |
मम चेदं वरं कस्माद्विधारयितुमिच्छसि || २-१३-३
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा |
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव || २-१३-४
मृते मयि गते रामे वनं मनुजपुंगवे |
हन्त अनार्ये मम अमित्रे सकाम सुखिनी भव || २-१३-५
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम् |
प्रत्यादेशादभिहितं धारयिष्ये कथं बत || २-१३-६
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया |
यदि सत्यं ब्रवीम्येतत्तस्त्यं भविष्यति || २-१३-७
अपुत्रेण मया पुत्रः श्रमेण महता महान् |
रामो लब्धो महाबाहुः स कथं त्यज्यते मया || २-१३-८
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः |
कथं कमलपत्राक्षो मया रामो विवास्यते || २-१३-९
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् |
अभिराममहं रामं प्रेषयिष्यामि दण्डकान् || २-१३-१०
सुखानामुचितस्यैव दुःखैरनुचितस्य च |
दुःखं नामानुपश्येयं कथं रामस्य धीमतः || २-१३-११
यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् |
अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् || २-१३-१२
नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् |
किं विप्रियेण कैकेयि प्रियं योजयसे मम || २-१३-१३
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे |
तथा विलपतस्तस्य परिभ्रमित चेतसः || २-१३-१४
अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत |
सा त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता || २-१३-१५
राज्ञो विलपमानस्य न व्यभासत शर्वरी |
तथैवोष्णम् विनिःश्वस्य वृद्धो दसरथो नृपः || २-१३-१६
विललापार्तवद्दुःखं गगनासक्तलोचनः |
प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे || २-१३-१७
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः |
अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् || २-१३-१८
नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् |
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः || २-१३-१९
प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् |
साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः | २-१३-२०
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः |
शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् || २-१३-२१
कुरु साधु प्रसादं मे बाले सहृदया ह्यसि |
प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् || २-१३-२२
लभतामसितापाङ्गे यशः परमवाप्नुहि |
मम रामस्य लोकस्य गुरूणां भरतस्य च || २-१३-२३
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे |
विशुद्धभावस्य सु ुष्टभावा |
दीनस्य ताम्राश्रुकलस्य राज्ञः |
श्रुत्वा विचित्रं करुणं विलापं |
भर्तुर्नृशंसा न चकार वाक्यम् || २-१३-२४
ततः स राजा पुनरेव मूर्छितः |
प्रियामतुष्टां प्रतिकूलभाषिणीम् |
समीक्ष्य पुत्रस्य विवासनम् प्रति |
क्षितौ विसंज्ञो निपपात दुःखितः || २-१३-२५
इतीव राज्ञो व्यथितस्य सा निशा |
जगाम घोरं श्वसतो मनस्विनः |
विबोध्यमानः प्रतिबोधनं तदा |
निवारयामास स राजसत्तमः || २-१३-२६
|| इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे त्रयोदशः सर्गः ||