Dasaratha’s reaction and Kaikeyi’s adamant nature
Valmiki Ramayana – Kanda 2 – Sarga 12
ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः |
चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च || २-१२-१
किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम |
अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः || २-१२-२
इति संचिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् |
प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः || २-१२-३
व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः |
असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् || २-१२-४
मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः |
अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः || २-१२-५
मोहमापेदिवान्भूयः शोकोपहतचेतनः |
चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः || २-१२-६
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा |
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि || २-१२-७
किम् कृतम् तव रामेण पापं पापे मयापि वा |
यदा ते जननीतुल्याम् वृत्तिम् वहति राघवः || २-१२-८
तस्यैव त्वमनर्थाय किम् निमित्तमिहोद्यता |
त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता || २-१२-९
अविज्ञानान्नृपसुता व्याळी तीक्ष्णविषा यथा |
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् || २-१२-१०
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् |
कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् || २-१२-११
जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् |
परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् || २-१२-१२
अपश्यतस्तु मे रामम् नष्टा भवति चेतना |
तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना || २-१२-१३
न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् |
तदलम् त्यज्यतामेष निश्चयः पापनिश्चये || २-१२-१४
अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे |
किमिदम् चिन्तितम् पापे त्वया परमदारुणम् || २-१२-१५
अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये |
अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति || २-१२-१६
स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे |
तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् || २-१२-१७
तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् |
आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता || २-१२-१८
इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् |
अनयो नयसम्पन्ने यत्र ते विकृता मतिः || २-१२-१९
न हि किंचिदयुक्तम् वा विप्रियम् वा पुरा मम |
अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् || २-१२-२०
ननु ते राघवस्तुल्यो भरतेन महात्मना |
बहुशो हि स्म बाले त्वम् कथयसे मम || २-१२-२१
तस्य धर्मात्मनो देवि वनवासम् यशस्विनः |
कथम् रोचयसे भीरु नव वर्षाणि पञ्च च || २-१२-२२
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः |
कथम् रोचयसे वासमरण्ये भृशदारुणे || २-१२-२३
रोचयस्यभिरामस्य रामस्य शुभलोचने |
तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् || २-१२-२४
रामो हि भरताद्भूय स्तव शुश्रूषते सदा |
विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये || २-१२-२५
शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् |
कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् || २-१२-२६
बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् |
परिवादोऽपवादो वा राघवे नोपपद्यते || २-१२-२७
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा |
गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः || २-१२-२८
सत्येन लोकान् जयति दीनान् दानेन राघवः |
गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् || २-१२-२९
सत्यम् दानम् तपस्त्यगो वित्रता शौचमार्जवम् |
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे || २-१२-३०
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् |
पापमाशंससे रामे महर्षिसमतेजसि || २-१२-३१
न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः |
स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् || २-१२-३२
क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता |
अप्यहिंसा च भूतानाम् तमृते का गतिर्मम || २-१२-३३
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः |
दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि || २-१२-३४
पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते |
तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् || २-१२-३५
अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते |
शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् || २-१२-३६
इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् |
घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् || २-१२-३७
पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः |
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः || २-१२-३८
यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे |
धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि || २-१२-३९
यदा समेता बहवस्त्वया राजर्षयस्सह |
कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि || २-१२-४०
यस्याः प्रसादे जीवामि या च मामभ्यपालयत् |
तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि || २-१२-४१
किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप |
यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे || २-१२-४२
शैब्यः श्येनकपोतीये स्वमांसं पक्षिते ददौ |
अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् || २-१२-४३
सागरः समयम् कृत्वान वेलामतिवर्तते |
समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् || २-१२-४४
स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच |
सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते || २-१२-४५
भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् |
यत्त्वया संश्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः || २-१२-४६
अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः |
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते || २-१२-४७
एकाहमपि पश्येयम् यद्यहम् राममातरम् |
अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम || २-१२-४८
भरतेनात्मना चाहम् शपे ते मनुजाधिप |
यथा नान्येन तुष्येयमृते रामविवासनात् || २-१२-४९
एतावदुक्त्वा वचनम् कैकेयी विरराम ह |
विलपन्तम् च राजानम् न प्रतिव्याजहार सा || २-१२-५०
श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् |
रामस्य च वने वासमैश्वर्यम् भरतस्य च || २-१२-५१
नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः |
प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् || २-१२-५२
ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् |
दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् || २-१२-५३
स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् |
ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् || २-१२-५४
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः |
हृततेजा यथा सर्पो बभूव जगतीपतिः || २-१२-५५
दीनया तु गिरा राजा इति होवाच कैकयिम् |
अनर्थमिममर्थाभम् केन त्वमुपदर्शिता || २-१२-५६
भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे |
शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा |
बलायास्तत्त्विदानीम् ते लक्षये विपरीतवत् || २-१२-५७
कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् |
राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने || २-१२-५८
विरमैतेन भावेन त्वमेतेनानृतेन वा || २-१२-५९
यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च |
नृशंसे पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि || २-१२-६०
किम् नु दुःखमळीकम् वा मयि रामे च पश्यसि |
न कथंचि दृते रामाद्भरतो राज्यमावसेत् || २-१२-६१
रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् |
कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते || २-१२-६२
मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् |
ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् || २-१२-६३
कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् |
किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् || २-१२-६४
बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् |
यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् || २-१२-६५
परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा |
कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया || २-१२-६६
यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति |
किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते || २-१२-६७
किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् |
यदा यदा ही कौसल्या दासीवच्च सखीव च || २-१२-६८
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति |
सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा || २-१२-६९
न मया सत्कृता देवि सत्कारार्हा कृते तव |
इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि || २-१२-७०
अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् |
विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च || २-१२-७१
सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति |
कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् || २-१२-७२
माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् |
वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति || २-१२-७३
हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा |
न हि राममहम् दृष्ट्व प्रवसन्तम् महावने || २-१२-७४
चिरम् जीवितुमाशंसे रुदतीम् चापि मैथिलीम् |
सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ||२-१२-७५
न हि प्रवाजिते रामे देवि जीवितुमुत्सहे |
सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् || २-१२-७६
रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् |
अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे || २-१२-७७
गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः |
अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् || २-१२-७८
धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा |
अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव || २-१२-७९
दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् |
चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता || २-१२-८०
अज्ञानादुपसम्पन्ना रज्जुरुद्बंधिनी यथा |
रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये || २-१२-८१
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् |
मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना || २-१२-८२
तम् तु माम् जीवलोकोऽयम् नूनमाक्रोष्टुमर्हति |
बालिशो बत कामात्मा राजा दशरथो भृशम् || २-१२-८३
यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति |
व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः || २-१२-८४
भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते |
नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् || २-१२-८५
स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति |
यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः || २-१२-८६
प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति |
शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः || २-१२-८७
स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति |
राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् || २-१२-८८
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् |
मृते मयि गते रामे वनम् मनुजपुङ्गवे || २-१२-८९
इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे |
कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति || २-१२-९०
दुःखान्यसहती देवी मामेवानुमरिष्यति |
कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ||२-१२-९१
प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव |
मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः || २-१२-९२
इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि |
प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् || २-१२-९३
मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः |
हन्तानार्ये ममामित्रे सकामा भव कैकयि || २-१२-९४
मृते मयि गते रामे वनम् पुरुषपुङ्गवे |
सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि || २-१२-९५
त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि |
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे || २-१२-९६
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा |
कथम् रथैर्विभुर्गत्वा गजाश्वैश्च मुहुर्मुहुः || २-१२-९७
पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति |
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः || २-१२-९८
अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् |
स कथन्नु कषायाणि तिक्तानि कटुकानि च || २-१२-९९
भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति |
महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः || २-१२-१००
काशायपरिधानस्तु कथम् भूमौ निवत्स्यति |
कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् || २-१२-१०१
रामस्यारण्यगवनम् भरतस्यैव मातरम् |
धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा || २-१२-१०२
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् |
अनर्थभावेऽ र्थपरे नृशंसे |
ममानुतापाय निविष्टभावे |
किमप्रियम् पश्यसि मन्निमित्तम् |
हितानुकारिण्यथवापि रामे || २-१२-१०३
परित्यजेयुः पितरो हि पुत्रान् |
भार्याः वतींश्चापि कृतानुरागाः |
कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या |
द्दृष्ट्वे रानन् व्तसबे बुनग्बन् || २-१२-१०४
अहम् पुनर्देवकुमाररूप |
मलकृतम् तम् सुतमाव्रजन्तम् |
नन्दामि पश्यन्नपि दर्शनेन |
भवामि दृष्ट्वा च पुनर्युवेव || २-१२-१०५
विनापि सूर्येण भवेत्प्रवृत्ति |
रवर्ष्ता वज्रधरेण वापि |
रामम् तु गच्छन्तमितः समीक्ष्य |
जीवेन्न कश्चित्त्विति चेतना मे || २-१२-१०६
विनाशकामामहिताममित्रा |
मावासयम् मृत्युमिवात्मनस्त्वम् |
चिरम् बताङ्केन धृतासि सर्पी |
महाविष तेन हतोऽस्मि मोहात् || २-१२-१०७
मया च रामेण सलक्ष्मणेन |
प्रशास्तु हीनो भरतस्त्वया सह |
पुरम् च राष्ट्रम् च निहत्य बान्धवान् |
ममाहितानाम् च भवाभिहर्षिणी || २-१२-१०८
नृशंसवृत्ते व्यसनप्रहारिणि |
प्रसह्य वाक्यम् यदिहाद्य भाषसे |
न नाम ते केन मुखात्पतन्त्यधो |
विशीर्यमाणा दशना स्सहस्रधा || २-१२-१०९
न किंचिदाहाहितमप्रियम् वचो |
न वेत्ति रामः परुशाणि Bहाषितुम् |
कथन्नु रामे ह्यभिरामवादिनि |
ब्रवीषि दोषान् गुणनित्यसम्मते || २-१२-११०
प्रताम्य वा प्रज्वल वा प्रणश्य वा |
सहस्रशो वा स्फुटिता महीम् व्रज |
न ते करिष्यमि वचः सुदारुणम् |
ममाहितम् केकयराजपांसनि || २-१२-१११
क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् |
प्रदुष्टभावाम् स्वकुलोपघातिनीम् |
न जीवितुम् त्वाम् विषहेऽमनोरमाम् |
दिधक्षमाणाम् हृदयम् सबन्धनम् || २-१२-११२
न जीवितम् मेऽस्ति पुनः कुतः सुखम् |
विनात्मजेनात्मवतः कुतो रतिः |
ममाहितम् देवि न क् कर्तुमर्हसि |
स्पृशामि पादावपि ते प्रसीद मे || २-१२-११३
स भूमिपलो विलपन्ननाथवत् |
स्त्रीया गृहीतो हृदयेऽतिमात्रया |
पपात देव्याश्चरणौ प्रसारिता |
पुभावसम्प्राप्य यथातुरस्तथा || २-१२-११४
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्वादशह् सर्गः ||