Joy of a city
Valmiki Ramayana – Kanda 2 – Sarga 6
गते पुरोहिते रामः स्नातो नियतमानसः |
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् || २-६-१
प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा |
महते दैवतायाज्यं जुहाव ज्वलितानले || २-६-२
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् |
ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे || २-६-३
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः |
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः || २-६-४
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः |
अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः || २-६-५
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् |
पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः || २-६-६
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् |
विमलक्षौमसंवीतो वाचयामास च द्विजान् || २-६-७
तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा |
अयोध्यां पूरयामास तूर्यघोषानुनादितः || २-६-८
कृतोपवासं तु तदा वैदेह्या सह राघवम् |
अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः || २-६-९
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् |
प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् || २-६-१०
सिताभ्रशिखराभेषु देवतायतनेषु च |
ङ्��चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च || २-६-११
नानापण्यसमृद्धेषु वणिजामापणेषु च |
कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च || २-६-१२
सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च |
ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा || २-६-१३
नटनर्तकसंघानां गायकानां च गायताम् |
मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः || २-६-१४
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः |
रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च || २-६-१५
बाला अपि क्रीडमाना गृ हद्वारेषु संघशः |
रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः || २-६-१६
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः |
राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने || २-६-१७
प्रकाशकरणार्धं च निशागमनशञ्कया |
दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः || २-६-१८
अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः |
आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् || २-६-१९
समेत्य संघशः सर्वे चत्वरेषु सभासु च |
कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् || २-६-२०
अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः |
ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति || २-६-२१
सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः |
चिराय भविता गोप्ता दृष्टलोकपरावरः || २-६-२२
आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः |
यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः || २-६-२३
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः |
यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् || २-६-२४
एवंविधं कथयतां पौराणां शुश्रुवुस्तदा |
दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः || २-६-२५
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् |
रामस्य पूरयामासुः पुरीं जानपदा जनाः || २-६-२६
जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः |
पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः || २-६-२७
ततस्तदिन्द्रक्षयसन्निभं पुरं |
दिदृक्षुभिर्जानपदै रुपागतैः |
समन्ततः सस्वनमाकुलं बभौ |
समुद्रयादोभि रिवार्णवोदकम् || २-६-२८
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्यकाण्डे षष्ठः सर्गः ||
3 thoughts on “Ayodhya Kanda – Sarga 6 (Valmiki Ramayana)”
Anyone know where to get the Jiliace app download? Found a link that seems legit. Fingers crossed it’s the real deal! Good luck jiliace app download
Nesine? Heard it mentioned a few times. Is it good for sports betting? Check it out nesine.
Hey guys, heard about ‘ph dream 8’. Wondering if it’s worth my time. Any reviews or experiences you’d like to share? Check out ph dream 8: ph dream 8