Dasaratha’s Desire
Valmiki Ramayana – Kanda 2 – Sarga 2
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः |
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः || २-२-१
दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना |
स्वरेण महता राजा जीमूत इव नादयन् || २-२-२
राजलक्षणयुक्तेन कान्तेनानुपमेन च |
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् || २-२-३
विदितं भवतामेतद्यथा मे राज्यमुत्तमम् |
पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् || २-२-४
सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् |
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् || २-२-५
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता |
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः || २-२-६
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् |
पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया || २-२-७
प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः |
जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये || २-२-८
राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः |
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् || २-२-९
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते |
सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् || २-२-१०
अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः |
पुरन्दरसमो वीर्ये रामः परपुरंजयः || २-२-११
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् |
यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुंगवम् || २-२-१२
अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः |
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् || २-२-१३
अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम् |
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै || २-२-१४
यदीदम् मेऽनुरुपार्थं मया साधु सुमन्त्रितम् |
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् || २-२-१५
यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् |
अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया || २-२-१६
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् |
वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः || २-२-१७
स्निग्धोऽनुनादी संजज्ञे तत्र हर्षसमीरितः |
जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव || २-२-१८
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः |
ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह || २-२-१९
समेत्य मन्त्रयित्वा तु समतागतबुद्धयः |
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् || २-२-२०
अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव |
स रामं युवराजानमभिषिञ्चस्व पार्थिवम् || २-२-२१
इच्छामो हि महाबाहुं रघुवीरं महाबलम् |
गजेन महता यान्तं रामं छत्रावृताननम् || २-२-२२
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् |
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् || २-२-२३
श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ |
राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः || २-२-२४
कथं नु मयि धर्मेण पृथिवीमनुशासति |
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् || २-२-२५
ते तमूचुर्महात्मानं पौरजानपदैः सह |
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते || २-२-२६
गुणान् गुणवतो देव देवकल्पस्य धीमतः |
प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु || २-२-२७
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः |
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते || २-२-२८
रामः सत्पुरुषो लोके सत्यधर्मपरायणः |
साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह || २-२-२९
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः |
बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः || २-२-३०
धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः |
क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतज्ञो विजितेन्द्रियः || २-२-३१
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः |
प्रियवादी च भूतानां सत्यवादी च राघवः || २-२-३२
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता |
तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते || २-२-३३
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः |
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गेवेदवित् || २-२-३४
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः |
कल्याणाभिजनः साधुरदीनात्मा महामतिः || २-२-३५
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः |
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा || २-२-३६
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते |
संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा || २-२-३७
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति |
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च || २-२-३८
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् |
शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः || २-२-३९
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते |
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः || २-२-४०
उत्सवेषु च सर्वेषु पितेव परितुष्यति |
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः || २-२-४१
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः |
सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः || २-२-४२
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा |
सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम् || २-२-४३
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः |
प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः || २-२-४४
शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् |
नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन || २-२-४५
हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति |
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति || २-२-४६
शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् |
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः || २-२-४७
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् |
लोकपालोपमं नाथमकामयत मेदिनी || २-२-४८
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव |
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः || २-२-४९
बलमारोग्यमायुश्च रामस्य विदितात्मनः |
देवासुरमनुष्येषु सगन्धर्वोरगेषु च || २-२-५०
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा |
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः || २-२-५१
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः |
सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः || २-२-५२
तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् |
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् || २-२-५३
पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् |
तं देवदेवोपममात्मजं ते |
सर्वस्य लोकस्य हिते निविष्टम् |
हिताय नः क्ष्हिप्रमुदारजुष्टं |
मुदाभिषेक्तुं वरद त्व मर्हसि || २-२-५४
|| इति श्रीमद्रामायणे अयोध्यकाण्डे द्वितीय सर्गः ||