Rama, The Hero
Valmiki Ramayana – Kanda 2 – Sarga 1
गच्छता मातुलकुलं भरतेन तदाऽनघः |
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः || २-१-१
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः |
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः || २-१-२
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः |
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् || २-१-३
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ |
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ || २-१-४
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः |
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः || २-१-५
तेषामपि महातेजा रामो रतिकरः पितुः |
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः || २-१-६
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः |
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः || २-१-७
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा |
यथा वरेण देवानामदितिर्वज्रपाणिना || २-१-८
स हि रूपोपपन्नश्च वीर्यवाननसूयकः |
भूमावनुपमः सूनुर्गुणैर्दशरथोपमः || २-१-९
स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते |
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते || २-१-१०
कथञ्चिदुपकारेण कृतेनैकेन तुष्यति |
न स्मरत्यपकाराणां शतमप्यात्मवत्तया || २-१-११
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः |
कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि || २-१-१२
बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः |
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः || २-१-१३
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः |
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते || २-१-१४
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः |
दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्शुचिः || २-१-१५
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते |
मन्यते परया कीर्त्या महत्स्वर्गफलं ततः || २-१-१६
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः |
उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा || २-१-१७
अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित् |
लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः || २-१-१८
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः |
बहिश्चर इव प्राणो बभूव गुणतः प्रियः || २-१-१९
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् |
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः || २-१-२०
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः |
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः || २-१-२१
धर्मकामार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् |
लौकिके समयाचारे कृतकल्पो विशारदः || २-१-२२
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् |
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् || २-१-२३
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः |
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् || २-१-२४
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः |
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः || २-१-२५
सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च |
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् || २-१-२६
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च |
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः || २-१-२७
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् |
आरोहे विनये चैव युक्तो वारणवाजिनाम् || २-१-२८
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः |
अभियाता प्रहर्ता च सेनानयविशारदः || २-१-२९
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः |
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी |
न चावमन्ता भूतानां न च कालवशानुगः || २-१-३०
एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः |
सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः || २-१-३१
बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः |
तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः || २-१-३२
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः |
तमेवं व्रत्तसंपन्नमप्रधृष्यपराक्रमम् || २-१-३३
लोकपालोपमं नाथमकामयत मेदिनी |
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् || २-१-३४
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः |
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः || २-१-३५
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति |
एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते || २-१-३६
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् |
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः || २-१-३७
मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् |
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ || २-१-३८
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः |
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् || २-१-३९
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् |
इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः || २-१-४०
शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः |
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः || २-१-४१
निश्चित्य सचिवैः सार्धं युवराजममन्यत |
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् || २-१-४२
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् |
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः || २-१-४३
लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः |
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च || २-१-४४
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः |
नानानगरवास्तव्यान् पृथग्जानपदानपि || २-१-४५
समानिनाय मेदिन्याः प्रधानान्पृथिवीपतीन् |
न तु केकयराजानं जनकं वा नराधिपः || २-१-४६
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् |
तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् || २-१-४७
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः |
अथोपविष्टे नृपतौ तस्मिन्परबलार्दने || २-१-४८
ततः प्रविविशुः शेषा राजानो लोकसम्मताः |
अथ राजवितीर्णेषु विविधेष्वासनेषु च || २-१-४९
राजानमेवाभिमुखा निषेदुर्नियता नृपाः |
स लब्धमानैर्विनयान्वितैर्नृपैः |
पुरालयैर्जानपदैश्च मानवैः |
उपोपविष्टैर्नृपतिर्वृतो बभौ |
सहस्रचक्षुर्भगवानिवामरैः || २-१-५०
|| इति श्रीमद्रामायणे अयोध्याकाण्डे प्रथमसर्गः ||