Sitha’s marriage with Rama
Valmiki Ramayana – Kanda 1 – Sarga 73
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् |
तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान् || १-७३-१
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः |
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् || १-७३-२
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् |
येषां कुशलकामोऽसि तेषां संप्रत्यनामयम् || १-७३-३
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः |
तदर्थमुपयातोऽहमयोध्यां रघुनंदन || १-७३-४
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् |
मिथिलामुपयातांस्तु त्वया सह महीपते || १-७३-५
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् |
अथ राजा दशरथः प्रियातिथिमुपस्थितम् || १-७३-६
दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् |
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः || १-७३-७
प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् |
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् || १-७३-८
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः |
भ्रातृभिः सहितो रामः कृतकौतुकमंगलः || १-७३-९
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि |
वशिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् || १-७३-१०
राजा दशरथो राजन् कृतकौतुकमङ्गलैः |
पुत्रैर्नरवरश्रेष्ठ दातारमभिकांक्षते || १-७३-११
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः संभवन्ति हि |
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् || १-७३-१२
इत्युक्तः परमोदारो वसिष्ठेन महात्मना |
प्रत्युवाच महातेजा वाक्यं परमधर्मवित् || १-७३-१३
कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते |
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव || १-७३-१४
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः |
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः || १-७३-१५
सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः |
अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते || १-७३-१६
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा |
प्रवेशयामास सुतान् सर्वानृषिगणानपि || १-७३-१७
ततो राजा विदेहानां वशिष्ठमिदमब्रवीत् |
कारयस्व ऋषे सर्वानृषिभिः सह धार्मिक || १-७३-१८
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो |
तथेत्युक्त्वा तु जनकं वशिष्ठो भगवानृषिः || १-७३-१९
विश्वामित्रं पुरस्कृत्य शतानंदं च धार्मिकम् |
प्रपामध्ये तु विधिवद्वेदीं कृत्वा महातपाः || १-७३-२०
अलञ्चकार तां वेदीं गन्धपुष्पैः समंततः |
सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः || १-७३-२१
अंकुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः |
शंखपात्रैः श्रुवैः स्रुग्भिः पात्रैरर्घ्यादिपूजितैः || १-७३-२२
लाजपूर्णैश्च पात्रीभिरक्षितैरपि संस्कृतैः |
दर्भैः समैः समास्तीर्य विधिवन्मंत्रपूर्वकम् || १-७३-२३
अग्निमाधाय तं वेद्यां विधिमंत्रपुरस्कृतम् |
जुहावाग्नौ महातेजा वशिष्ठो मुनिपुंगव || १-७३-२४
ततः सीतां समानीय सर्वाभरणभूषिताम् |
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा || १-७३-२५
अब्रवीज्जनको राजा कौसल्यानंदवर्धनम् |
इयं सीता मम सुता सहधर्मचरी तव || १-७३-२६
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना |
पतिव्रता महभागा छायेवानुगता सदा || १-७३-२७
इत्युक्त्वा प्राक्षिपद्राजा मंत्रपूतं जलं तदा |
साधु साध्विति देवानामृषीणां वदतां तदा || १-७३-२८
देवदुंदुभिनिर्घोषः पुष्पवर्षो महानभूत् |
एवं दत्त्वा सुतां सीतां मंत्रोदकपुरस्कृताम् || १-७३-२९
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः |
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया || १-७३-३०
प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः |
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत || १-७३-३१
गृहाण पाणिं माण्डव्याः पाणिना रघुनंदन |
शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः || १-७३-३२
श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना |
सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः || १-७३-३३
पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः |
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् || १-७३-३४
चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः |
अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च || १-७३-३५
ऋषींश्चैव महात्मानः सहभार्या रघूद्वहाः |
यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम् || १-७३-३६
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा |
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः || १-७३-३७
ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम् |
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत || १-७३-३८
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते |
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः || १-७३-३९
अथोपकार्यां जग्मुस्ते स दारा रघुनंदनाः |
राजाप्यनुययौ पश्यन् सर्षिसंघः सबान्धवः || १-७३-४०
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः