Janaka’s lineage detailed
Valmiki Ramayana – Kanda 1 – Sarga 71
एवं ब्रुवाणं जनकः प्रत्युवाच कृतांजलिः |
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् || १-७१-१
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः |
वक्तव्यं कुलजातेन तन्निबोध महामुने || १-७१-२
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा |
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः || १-७१-३
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः |
प्रथमो जनको नाम जनकादप्युदावसुः || १-७१-४
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः |
नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः || १-७१-५
सुकेतोरपि धर्मात्मा देवरातो महाबलः |
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः || १-७१-६
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् |
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः || १-७१-७
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः |
धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः || १-७१-८
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः |
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः || १-७१-९
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः |
देवमीढस्य विबुधो विबुधस्य महीध्रकः || १-७१-१०
महीध्रकसुतो राजा कीर्तिरातो महाबलः |
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत || १-७१-११
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत |
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत || १-७१-१२
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः |
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः || १-७१-१३
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः |
कुशध्वजं समावेश्य भारं मयि वनं गतः|| १-७१-१४
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् |
भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् || १-७१-१५
कस्यचित्त्वथ कालस्य सांकाश्यादगमत्पुरात् |
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः || १-७१-१६
स च मे प्रेषयामास शैवं धनुरनुत्तमम् |
सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति || १-७१-१७
तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह |
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे || १-७१-१८
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् |
सांकाश्ये भ्रातरं शूरमभ्यषिंचं कुशध्वजम् || १-७१-१९
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने |
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव || १-७१-२०
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै |
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् || १-७१-२१
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः |
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव || १-७१-२२
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह |
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु || १-७१-२३
मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो |
फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु |
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् || १-७१-२४
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः
3 thoughts on “Bala Kanda – Sarga 71 (Valmiki Ramayana)”
Tiy88 huh? Never heard of it. Time to roll the dice! I need to fund my ramen addiction after all. Try it out for yourself with tiy88
Fancy a gamble? Let’s see what on88uk’s all about then, shall we. Hoping for some royal wins here! Join the fun and gamble with on88uk
Banca28tt88, looks like some crazy name, let’s check it out, I wonder what the hell it is. Don’t belive me? See for youself with banca28tt88