Janaka’s lineage detailed
Valmiki Ramayana – Kanda 1 – Sarga 71
एवं ब्रुवाणं जनकः प्रत्युवाच कृतांजलिः |
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् || १-७१-१
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः |
वक्तव्यं कुलजातेन तन्निबोध महामुने || १-७१-२
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा |
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः || १-७१-३
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः |
प्रथमो जनको नाम जनकादप्युदावसुः || १-७१-४
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः |
नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः || १-७१-५
सुकेतोरपि धर्मात्मा देवरातो महाबलः |
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः || १-७१-६
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् |
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः || १-७१-७
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः |
धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः || १-७१-८
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः |
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः || १-७१-९
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः |
देवमीढस्य विबुधो विबुधस्य महीध्रकः || १-७१-१०
महीध्रकसुतो राजा कीर्तिरातो महाबलः |
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत || १-७१-११
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत |
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत || १-७१-१२
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः |
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः || १-७१-१३
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः |
कुशध्वजं समावेश्य भारं मयि वनं गतः|| १-७१-१४
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् |
भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् || १-७१-१५
कस्यचित्त्वथ कालस्य सांकाश्यादगमत्पुरात् |
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः || १-७१-१६
स च मे प्रेषयामास शैवं धनुरनुत्तमम् |
सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति || १-७१-१७
तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह |
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे || १-७१-१८
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् |
सांकाश्ये भ्रातरं शूरमभ्यषिंचं कुशध्वजम् || १-७१-१९
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने |
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव || १-७१-२०
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै |
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् || १-७१-२१
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः |
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव || १-७१-२२
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह |
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु || १-७१-२३
मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो |
फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु |
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् || १-७१-२४
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः