Bala Kanda – Sarga 69 (Valmiki Ramayana)

Dasharatha arrives at Mithila

Valmiki Ramayana – Kanda 1 – Sarga 69

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः |
राजा दशरथो हृष्टः सुमंत्रमिदमब्रवीत् || १-६९-१

अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् |
व्रजंत्वग्रे सुविहिता नानारत्नसमन्विताः || १-६९-२

चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः |
ममाज्ञा समकालं च यानं युग्ममनुत्तमम् || १-६९-३

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः |
मार्कण्डेयश्च दीर्घायुर्ऋषिः कात्यायनस्तथा || १-६९-४
एते द्विजाः प्रयान्त्वग्रे स्यंदनं योजयस्व मे |
यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम् || १-६९-५

वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी |
राजानमृषिभिः सार्धं व्रजंतं पृष्ठतोऽन्वगात् || १-६९-६

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् |
राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् || १-६९-७

ततो राजानमासाद्य वृद्धं दशरथं नृपम् |
जनको मुदितो राजा हर्षं च परमं ययौ || १-६९-८

उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम् |
स्वागतं ते नरश्रेष्ठः दिष्ट्या प्राप्तोऽसि राघव || १-६९-९
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् |

दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः || १-६९-१०
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः |

दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् || १-६९-११
राघवैः सह संबंधाद्वीर्यश्रेष्ठैर्महात्मभिः |

श्वः प्रभाते नरेन्द्र त्वम् सम्वर्तयितुमर्हसि || १-६९-१२
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः |

तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः || १-६९-१३
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् |

प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा || १-६९-१४
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् |

तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः || १-६९-१५
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः |

ततः सर्वे मुनिगणाः परस्परसमागमे || १-६९-१६
हर्षेण महता युक्तास्तां निशामवसन् सुखम् |

अथ रामो महातेजा लक्ष्मणेन समं ययौ || १-६९-१७
विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन् |

राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः || १-६९-१८
उवास परमप्रीतो जनकेन सुपूजितः |

जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् |
यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह || १-६९-१९

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनसप्ततितमः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।