Legend of Vishvamitra – concluded
Valmiki Ramayana – Kanda 1 – Sarga 65
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः |
पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् || १-६५-१
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् |
चकाराप्रतिमं राम तपः परमदुष्करम् || १-६५-२
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् |
विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् || १-६५-३
स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् |
तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः || १-६५-४
भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम |
इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत || १-६५-५
तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः |
निःषेषितेऽन्ने भगवानभुक्त्वैव महातपाः || १-६५-६
न किंचिदवदद्विप्रं मौनव्रतमुपास्थितः |
तथैवासीत्पुनः मौनमनुच्छ्वासं चकार ह || १-६५-७
अथ वर्षसहस्रं च नोच्छ्वसन्मुनिपुंगवः |
तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत || १-६५-८
त्रैलोक्यं येन संभ्रांतमातापितमिवाभवत् |
ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः || १-६५-९
मोहिता तपसा तस्य तेजसा मंदरश्मयः |
कश्मलोपहताः सर्वे पितामहमथाब्रुवन् || १-६५-१०
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः |
लोभितः क्रोधितश्चैव तपसा चाभिवर्धते || १-६५-११
न ह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्यथ |
न दीयते यदि त्वस्य मनसा यदभीप्सितम् || १-६५-१२
विनाशयति त्रैलोक्यं तपसा स चराचरम् |
व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते || १-६५-१३
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः |
प्रकंपते च वसुधा वायुर्वातीह संकुलः || १-६५-१४
ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः |
सम्मूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् || १-६५-१५
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा |
बुद्धिं न कुरुते यावन्नाशे देव महामुनिः || १-६५-१६
तावत्प्रसादो भगवानग्निरूपो महाद्युतिः |
कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् || १-६५-१७
देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् |
ततः सुरगणाः सर्वे पितामहपुरोगमाः || १-६५-१८
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् |
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः || १-६५-१९
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक |
दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः || १-६५-२०
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् |
पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम् || १-६५-२१
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः |
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च || १-६५-२२
ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम् |
क्षत्र वेदविदां श्रेष्ठो ब्रह्मवेदविदामपि || १-६५-२३
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः |
यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः || १-६५-२४
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः |
सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् || १-६५-२५
ब्रह्मर्षिस्त्वं न संदेहः सर्वं संपद्यते तव |
इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् || १-६५-२६
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् |
पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् || १-६५-२७
कृतकामो महीं सर्वां चचार तपसि स्थितः |
एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना || १-६५-२८
एष राम मुनिश्रेष्ठ एष विग्रहवान् तपः |
एष धर्मः परो नित्यं वीर्यस्यैष परायणम् || १-६५-२९
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः |
शतानंदवचः श्रुत्वा रामलक्ष्मणसंनिधौ ||१-६५-३०
जनकः प्रांजलिर्वाक्यमुवाच कुशिकात्मजम् |
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव || १-६५-३१
यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक |
पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने || १-६५-३२
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया |
विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः || १-६५-३३
श्रुतं मया महातेजो रामेण च महात्मना |
सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः || १-६५-३४
अप्रमेया तपस्तुभ्यमप्रमेयं च ते बलम् |
अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज || १-६५-३५
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो |
कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् || १-६५-३६
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः |
स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि || १-६५-३७
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् |
विससर्जाशु जनकं प्रीतं प्रीतिमांस्तदा || १-६५-३८
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः |
प्रदक्षिणं चकाराशु सोपाध्यायः सबांधवः || १-६५-३९
विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः |
स्वं वासमभिचक्राम पूज्यमानो महर्षिभिः || १-६५-४०
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचषष्टितमः सर्गः
3 thoughts on “Bala Kanda – Sarga 65 (Valmiki Ramayana)”
Yo, 123beegames, what’s up? Just tried it out, pretty solid. Good selection of games and the site runs smooth. Check it out here 123beegames
Alright, checked out 6777cxpakistan. It’s got something going on. If you’re looking for something different give it spin 6777cxpakistan
Hey guys, 98wim81 is on my radar. Seems cool. Take a peek 98wim81