Legend of shunashshepa continues
Valmiki Ramayana – Kanda 1 – Sarga 62
शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः |
व्यश्रामत् पुष्करे राजा मध्याह्ने रघुनंदन || १-६२-१
तस्य विश्रममाणस्य शुनःशेपो महायशाः |
पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह || १-६२-२
तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः |
विषण्णवदनो दीनस्तृष्णया च श्रमेण च || १-६२-३
पपाताङ्के मुने राम वाक्यं चेदमुवाच ह |
न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः || १-६२-४
त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव |
त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः || १-६२-५
राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः |
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् || १-६२-६
स मे नाथो ह्यनाथस्य भव भव्येन चेतसा |
पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् || १-६२-७
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः |
सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह || १-६२-८
यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः |
परलोकहितार्थाय तस्य कालोऽयमागतः || १-६२-९
अयं मुनिसुतो बालो मत्तः शरणमिच्छति |
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः || १-६२-१०
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः |
पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत || १-६२-११
नाथनान् च शुनःशेपो यज्ञश्चाविघ्नतो भवेत् |
देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः || १-६२-१२
मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः |
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् || १-६२-१३
कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो |
अकार्यमिव पश्यामः श्वमांसमिव भोजने || १-६२-१४
तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवः |
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे || १-६२-१५
निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् |
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् || १-६२-१६
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु |
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ || १-६२-१७
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा |
शुनःशेपमुवाचार्थं कृत्वा रक्षां निरामयाम् || १-६२-१८
पवित्रपाशैर्बद्धो रक्तमाल्यानुलेपनः |
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर || १-६२-१९
इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक |
अंबरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि || १-६२-२०
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः |
त्वरया राजसिंहं तमंबरीषमुवाच ह || १-६२-२१
राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम् |
निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर || १-६२-२२
तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः |
जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः || १-६२-२३
सदस्यानुमते राजा पवित्रकृतलक्षणम् |
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् || १-६२-२४
स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ |
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः || १-६२-२५
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः |
दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव || १-६२-२६
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् |
फलं बहुगुणं राम सहस्राक्षप्रसादजम् || १-६२-२७
विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः |
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च || १-६२-२८
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विषष्टितमः सर्गः