Bala Kanda – Sarga 56 (Valmiki Ramayana)

Vashista nullifies Vishvamitra’s missiles

Valmiki Ramayana – Kanda 1 – Sarga 56

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः |
आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् || १-५६-१

ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम् |
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् || १-५६-२

क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय |
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज || १-५६-३

क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् |
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन || १-५६-४

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् |
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा || १-५६-५

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा |
ऐषीकं चापि चिक्षेप रुषितो गाधिनंदनः || १-५६-६

मानवं मोहनं चैव गांधर्वं स्वापनं तथा |
जृंभणं मादनं चैव संतापनविलापने || १-५६-७

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् |
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च || १-५६-८

पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा |
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च || १-५६-९

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च |
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा || १-५६-१०

शक्तिद्वयं च चिक्षेप कंकालं मुसलं तथा |
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् || १-५६-११

त्रिशूलमस्त्रं घोरं च कापालमथ कंकणम् |
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनंदन || १-५६-१२
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् |

तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः || १-५६-१३
तेषु शांतेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनंदनः |

तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः || १-५६-१४
देवर्षयश्च संभ्रांता गंधर्वाः समहोरगाः |
त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते || १-५६-१५

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा |
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव || १-५६-१६

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः |
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् || १-५६-१७

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः |
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः || १-५६-१८

प्राज्वलत् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः |
विधूम इव कालाग्निर्यमदण्ड इवापरः || १-५६-१९

ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् |
अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा || १-५६-२०
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः |
प्रसीद जपतां श्रेष्ठलोकाः सन्तु गतव्यथाः || १-५६-२१

एवमुक्तो महातेजाः शमं चक्रे महातपाः |
विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् || १-५६-२२

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् |
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे || १-५६-२३

तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः |
तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम् || १-५६-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्पंचाशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।