Bala Kanda – Sarga 53 (Valmiki Ramayana)

Vishvamitra tries to gain Kaamadhenu

Valmiki Ramayana – Kanda 1 – Sarga 53

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन |
विदधे कामधुक्कामान् यस्य यस्येप्सितं यथा || १-५३-१

इक्षून्मधूंस्तथा लाजान् मैरेयांश्च वरासवान् |
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा || १-५३-२

उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः |
मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च || १-५३-३
नानास्वादुरसानां च खाण्डवानां [षाडवानां] तथैव च |
भाजनानि [भोजनानि] सुपूर्णानि गौडानि च सहस्रशः || १-५३-४

सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम् |
विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम् || १-५३-५

विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत् |
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः || १-५३-६

सामात्यो मंत्रिसहितः सभृत्यः पूजितस्तदा |
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् || १-५३-७

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः |
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद || १-५३-८

गवां शतसहस्रेण दीयतां शबला मम |
रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः || १-५३-९
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज |

एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः || १-५३-१०
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् |

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् || १-५३-११
राजन् दास्यामि शबलां राशिभी रजतस्य वा |

न परित्यागमर्हेयं मत्सकाशादरिन्दम || १-५३-१२
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा |

अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च || १-५३-१३
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च |

स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा || १-५३-१४
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः |

सर्वस्वमेतत्सत्येन मम तुष्टिकरी तथा || १-५३-१५
कारणैर्बहुभी राजन्न दास्ये शबलां तव |

वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्तदा || १-५३-१६
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः |

हैरण्यकक्ष्याग्रैवेयान् सुवर्णांकुशभूषितान् || १-५३-१७
ददामि कुंजराणां ते सहस्राणि चतुर्दश |

हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् || १-५३-१८
ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् |

हयानां देशजातानां कुलजानां महौजसाम् |
सहस्रमेकं दश च ददामि तव सुव्रत || १-५३-१९

नानावर्णविभक्तानां वयःस्थानां तथैव च |
ददाम्येकां गवां कोटिं शबला दीयतां मम || १-५३-२०

यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम |
तावद्ददामि ते सर्वं दीयतां शबला मम || १-५३-२१

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता |
न दास्यामीति शबलां प्राह राजन् कथंचन || १-५३-२२

एतदेव हि मे रत्नं एतदेव हि मे धनम् |
एतदेव हि सर्वस्वमेतदेव हि जीवितम् || १-५३-२३

दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः |
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा || १-५३-२४

अतो मूलाः क्रियाः सर्वा मम राजन्न संशयः |
बहूना किं प्रलापेन न दास्ये कामदोहिनीम् || १-५३-२५

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिपंचाशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।