Bala Kanda – Sarga 52 (Valmiki Ramayana)

He legend of Vishvamitra- continue

Valmiki Ramayana – Kanda 1 – Sarga 52

तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः |
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् || १-५२-१

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना |
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह || १-५२-२

उपविष्टाय च तदा विश्वामित्राय धीमते |
यथान्यायं मुनिवरः फलमूलमुपाहरत् || १-५२-३

प्रतिगृह्य तु तां पूजां वसिष्ठाद्राजसत्तमः |
तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत || १-५२-४
विश्वामित्रो महातेजा वनस्पतिगणे तथा |
सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमः || १-५२-५

सुखोपविष्टं राजानं विश्वामित्रं महातपाः |
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः || १-५२-६

कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रंजयन् |
प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक || १-५२-७

कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासने |
कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन || १-५२-८

कच्चित् बले च कोशे च मित्रेषु च परंतप |
कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ || १-५२-९

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् |
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम् || १-५२-१०

कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा |
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् || १-५२-११

ततो वसिष्ठो भगवान् कथान्ते रघुनंदन |
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव || १-५२-१२

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल |
तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे || १-५२-१३

सत्क्रियां तु भवानेतां प्रतीच्छतु मया कृताम् |
राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः || १-५२-१४

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः |
कृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया || १-५२-१५

फलमूलेन भगवन्विद्यते यत्तवाश्रमे |
पाद्येनाचमनीयेन भगवद्दर्शनेन च || १-५२-१६
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः |
नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा || १-५२-१७

एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि |
न्यमंत्रयत धर्मात्मा पुनः पुनरुदारधीः || १-५२-१८

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह |
यथा प्रियं भगवतस्तथास्तु मुनिसत्तम || १-५२-१९

एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः |
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः || १-५२-२०

एह्येहि शबले क्षिप्रं शृणु चापि वचो मम |
सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् |
भोजनेन महार्हेण सत्कारं संविधत्स्व मे || १-५२-२१

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् |
तत्सर्वं कामधुक् दिव्ये अभिवर्ष कृते मम || १-५२-२२

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् |
अन्नानां निचयं सर्वं सृजस्व शबले त्वर || १-५२-२३

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।