Bala Kanda – Sarga 51 (Valmiki Ramayana)

The legend of Vishvamitra

Valmiki Ramayana – Kanda 1 – Sarga 51

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः |
हृष्टरोमा महातेजाः शतानन्दो महातपाः || १-५१-१
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः |
रामसंदर्शनादेव परं विस्मयमागतः || १-५१-२

एतौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ |
शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् || १-५१-३

अपि ते मुनिशार्दूल मम माता यशस्विनी |
दर्शिता राजपुत्राय तपो दीर्घमुपागता || १-५१-४

अपि रामे महातेजो मम माता यशस्विनी |
वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् || १-५१-५

अपि रामाय कथितं यद् वृत्तं तत्पुरातनम् |
मम मातुर्महातेजो दैवेन दुरनुष्ठितम् || १-५१-६

अपि कौशिक भद्रं ते गुरुणा मम संगता |
माता मम मुनिश्रेष्ठ रामसंदर्शनादितः || १-५१-७

अपि मे गुरुणा रामः पूजितः कुशिकात्मज |
इहागतो महातेजाः पूजां प्राप्य महात्मनः || १-५१-८

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज|
इहागतेन रामेण पुजितेनाभिवादितः || १-५१-९

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः |
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यगोविदम् || १-५१-१०

नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया |
संगता मुनिना पत्नी भार्गवेणेव रेणुका || १-५१-११

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः |
शतानन्दो महातेजा रामं वचनमब्रवीत् || १-५१-१२

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव |
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् || १-५१-१३

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः |
विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् || १-५१-१४

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन |
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः || १-५१-१५

श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः |
यथा बलं यथा तत्त्वं तन्मे निगदतः शृणु || १-५१-१६

राजाऽसीदेष धर्मात्मा दिर्घकालमरिंदमः |
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः || १-५१-१७

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः |
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः || १-५१-१८

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः |
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः || १-५१-१९

विश्वमित्रो महातेजाः पालयामास मेदिनीम् |
बहुवर्षसहस्राणि राजा राज्यमकारयत् || १-५१-२०

कदाचित्तु महातेजा योजयित्वा वरूथिनीम् |
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् || १-५१-२१

नगराणि च राष्ट्रानि सरितश्च तथा गिरीन् |
आश्रमान् क्रमशो राजा विचरन्नाजगाम ह || १-५१-२२
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम् |
नानामृगगणाकीर्णं सिद्धचारणसेवितम् || १-५१-२३
देवदानवगन्धर्वैः किंनरैरुपशोभितम् |
प्रशान्तहरिणाकिर्णं द्विजसंघनिषेवितम् || १-५१-२४
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् |
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः || १-५१-२५
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः |
अब्भक्षैर्वायुभक्षैश्च शिर्णपर्णाशनैस्तथा || १-५१-२६
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः – यद्वा –
फलमूलाशनैर्दानैर्जिततोषैर्जितेन्द्रियैः |
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः || १-५१-२७
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् |

वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् |
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलम् || १-५१-२८

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकपंचाशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।