Bala Kanda – Sarga 51 (Valmiki Ramayana)

The legend of Vishvamitra

Valmiki Ramayana – Kanda 1 – Sarga 51

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः |
हृष्टरोमा महातेजाः शतानन्दो महातपाः || १-५१-१
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः |
रामसंदर्शनादेव परं विस्मयमागतः || १-५१-२

एतौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ |
शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् || १-५१-३

अपि ते मुनिशार्दूल मम माता यशस्विनी |
दर्शिता राजपुत्राय तपो दीर्घमुपागता || १-५१-४

अपि रामे महातेजो मम माता यशस्विनी |
वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् || १-५१-५

अपि रामाय कथितं यद् वृत्तं तत्पुरातनम् |
मम मातुर्महातेजो दैवेन दुरनुष्ठितम् || १-५१-६

अपि कौशिक भद्रं ते गुरुणा मम संगता |
माता मम मुनिश्रेष्ठ रामसंदर्शनादितः || १-५१-७

अपि मे गुरुणा रामः पूजितः कुशिकात्मज |
इहागतो महातेजाः पूजां प्राप्य महात्मनः || १-५१-८

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज|
इहागतेन रामेण पुजितेनाभिवादितः || १-५१-९

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः |
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यगोविदम् || १-५१-१०

नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया |
संगता मुनिना पत्नी भार्गवेणेव रेणुका || १-५१-११

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः |
शतानन्दो महातेजा रामं वचनमब्रवीत् || १-५१-१२

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव |
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् || १-५१-१३

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः |
विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् || १-५१-१४

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन |
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः || १-५१-१५

श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः |
यथा बलं यथा तत्त्वं तन्मे निगदतः शृणु || १-५१-१६

राजाऽसीदेष धर्मात्मा दिर्घकालमरिंदमः |
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः || १-५१-१७

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः |
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः || १-५१-१८

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः |
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः || १-५१-१९

विश्वमित्रो महातेजाः पालयामास मेदिनीम् |
बहुवर्षसहस्राणि राजा राज्यमकारयत् || १-५१-२०

कदाचित्तु महातेजा योजयित्वा वरूथिनीम् |
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् || १-५१-२१

नगराणि च राष्ट्रानि सरितश्च तथा गिरीन् |
आश्रमान् क्रमशो राजा विचरन्नाजगाम ह || १-५१-२२
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम् |
नानामृगगणाकीर्णं सिद्धचारणसेवितम् || १-५१-२३
देवदानवगन्धर्वैः किंनरैरुपशोभितम् |
प्रशान्तहरिणाकिर्णं द्विजसंघनिषेवितम् || १-५१-२४
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् |
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः || १-५१-२५
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः |
अब्भक्षैर्वायुभक्षैश्च शिर्णपर्णाशनैस्तथा || १-५१-२६
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः – यद्वा –
फलमूलाशनैर्दानैर्जिततोषैर्जितेन्द्रियैः |
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः || १-५१-२७
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् |

वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् |
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलम् || १-५१-२८

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकपंचाशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment