Redemption of Ahalya from her curse continues
Valmiki Ramayana – Kanda 1 – Sarga 50
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह |
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् || १-५०-१
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः |
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः || १-५०-२
बहूनीह सहस्राणि नानादेशनिवासिनाम् |
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् || १-५०-३
ऋषि ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः |
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् || १-५०-४
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः |
निवेशमकरोद्देशे विविक्ते सलिलायुते || १-५०-५
विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा |
शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् || १-५०-६
प्रत्युज्जगाम सहसा विनयेन समन्वितः |
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ||१-५०-७
विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम् |
प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः || १-५०-८
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् |
स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः || १-५०-९
यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत् |
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत || १-५०-१०
आसने भगवानास्तां सहैभिर्मुनिसत्तमैः |
जनकस्य वचः श्रुत्वा निषसाद महामुनिः || १-५०-११
पुरोधा ऋत्विजश्चैव राजा च सह मंत्रिभिः |
आसनेषु यथान्यायमुपविष्टान् समन्ततः || १-५०-१२
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् |
अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता || १-५०-१३
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया |
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव || १-५०-१४
यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह |
द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः || १-५०-१५
ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक |
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा || १-५०-१६
पुनस्तं परिपप्रच्छ प्रांजलिः प्रयतो नृपः |
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ || १-५०-१७
गजसिंहगती वीरौ शार्दूलवृषभोपमौ |
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ |
अश्विनाविव रूपेण समुपस्थितयौवनौ || १-५०-१८
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ |
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने || १-५०-१९
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने |
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् || १-५०-२०
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः |
काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः || १-५०-२१
तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः |
न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ || १-५०-२२
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा |
तत्रागमनमव्यग्रं विशालायाश्च दर्शनम् || १-५०-२३
अहल्यादर्शनं चैव गौतमेन समागमम् |
महाधनुषि जिज्ञासां कर्तुमागमनं तथा || १-५०-२४
एतत्सर्वं महातेजा जनकाय महात्मने |
निवेद्य विररामाथ विश्वामित्रो महामुनिः || १-५०-२५
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचाशः सर्गः