The legend of Ahalya
Valmiki Ramayana – Kanda 1 – Sarga 48
पृष्ट्वा तु कुशलं तत्र परस्परसमागमे |
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् || १-४८-१
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ |
गजसिंहगती वीरौ शार्दूलवृषभोपमौ || १-४८-२
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ |
अश्विनाविव रूपेण समुपस्थितयौवनौ || १-४८-३
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ |
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने || १-४८-४
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् |
परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः || १-४८-५
किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि |
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः || १-४८-६
तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् |
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा | १-४८-७
विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः || १-४८-७
अतिथी परमौ प्राप्तं पुत्रौ दशरथस्य तौ |
पूजयामास विधिवत् सत्कारार्हौ महाबलौ || १-४८-८
ततः परमसत्कारं सुमतेः प्राप्य राघवौ |
उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः || १-४८-९
तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् |
साधु साध्विति शंसन्तो मिथिलां समपूजयन् || १-४८-१०
मिथिलोपवने तत्र आश्रमं दृश्य राघवः |
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् || १-४८-११
इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम् |
श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः || १-४८-१२
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः |
प्रत्युवाच महातेजा विश्वमित्रो महामुनिः || १-४८-१३
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव |
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना || १-४८-१४
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः |
आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः || १-४८-१५
स चात्र तप आतिष्ठदहल्यासहितः पुरा |
वर्षपूगान्यनेकानि राजपुत्र महायशः || १-४८-१६
तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः |
मुनिवेषधरो भूत्वाऽहल्यामिदमब्रवीत् || १-४८-१७
ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते |
संगमं त्वहमिच्छामि त्वया सह सुमध्यमे || १-४८-१८
मुनिवेषं सहस्राक्षं विज्ञाय रघुनंदन |
मतिं चकार दुर्मेधा देवराजकुतूहलात् || १-४८-१९
अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना |
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो || १-४८-२०
आत्मानं मां च देवेश सर्वदा रक्ष गौतमात् |
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् || १-४८-२१
सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम् |
एवं संगम्य तु तया निश्चक्रामोटजात्ततः || १-४८-२२
स संभ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति |
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् || १-४८-२३
देवदानवदुर्धर्षं तपोबलसमन्वितम् |
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् || १-४८-२४
गृहीतसमिधं तत्र सकुशं मुनिपुंगवम् |
दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत् || १-४८-२५
अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः |
दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् || १-४८-२६
मम रूपं समास्थाय कृतवानसि दुर्मते |
अकर्तव्यमिदं यस्मात् विफलस्त्वं भविष्यति || १-४८-२७
गौतमेनैवमुक्तस्य स रोषेण महात्मना |
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् || १-४८-२८
तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान् |
इह वर्षसहस्राणि बहूनि निवसिष्यसि || १-४८-२९
वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी |
अदृश्या सर्वभूतानामाश्रमेऽस्मिन् निवत्स्यसि || १-४८-३०
यदा त्वेतद्वनं घोरं रामो दशरथात्मजः |
आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि || १-४८-३१
तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता |
मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि || १-४८-३२
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् |
इममाश्रममुत्सृज्य सिद्धचारणसेविते |
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः || १-४८-३३
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः