Bala Kanda – Sarga 43 (Valmiki Ramayana)

River ganga’s descent onto earth

Valmiki Ramayana – Kanda 1 – Sarga 43

देवदेवे गते तस्मिन् सोंऽगुष्ठाग्रनिपीडिताम् |
कृत्वा वसुमतीं राम वत्सरं समुपासत || १-४३-१

अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः |
उमापतिः पशुपती राजानमिदमब्रवीत् || १-४३-२

प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् |
शिरसा धारयिष्यामि शैलराजसुतामहम् ||१-४३-३

ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता |
तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् ||१-४३-४
आकाशादपतद्राम शिवे शिवशिरस्युत |

अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ||१-४३-५
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शंकरम् |

तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः || १-४३-६
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा |

सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि||१-४३-७
हिमवत्प्रतिमे राम जटामण्डलगह्वरे |

सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ||१-४३-८
नैव सा निर्गमं लेभे जटामण्डलमन्ततः |

तत्रैवाबंभ्रमद्देवी संवत्सरगणान्बहून् ||१-४३-९
तामपश्यन् पुनस्तत्र तपः परममास्थितः |

स तेन तोषितश्चासीदत्यन्तं रघुनंदन || १-४३-१०
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति |

तस्यां विसृज्यमानायां सप्त स्रोतंसि जज्ञिरे || १-४३-११
ह्लादिनी पावनी चैव नलिनी च तथैव च |
तिस्रः प्राचीं दिशं जग्मुर्गंगाः शिवजलाः शुभाः || १-४३-१२

सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी |
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ||१-४३-१३

सप्तमी चान्वगात्तासां भगीरथरथं तदा |
भगीरथोऽपि रजर्षिर्दिव्यं स्यंदनमास्थितः || १-४३-१४
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् |

गगनाच्छङ्करशिरस्ततो धरणिमागता || १-४३-१५
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् |

मत्स्यकच्छपसंघैश्च शिंशुमारगणैस्तथा || १-४३-१६
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा |

ततो देवर्षिगंधर्वा यक्षा सिद्धगणास्तथा || १-४३-१७
व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा |

विमानैर्नगराकारैर्हयैर्गजवरैस्तथा ||१-४३-१८
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः |

तदद्भुततमं लोके गंगापतनमुत्तमम् ||१-४३-१९
दिदृक्षवो देवगणाः समीयुरमितौजसः |

संपतद्भिः सुरगणैस्तेषां चाभरणौजसा || १-४३-२०
शतादित्यमिवाभाति गगनं गततोयदम् |

शिंशुमारोरगगणैर्मीनैरपि च चंचलैः || १-४३-२१
विद्युद्भिरिव विक्षिप्तैराकाशमभवत्तदा |

पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ||१-४३-२२
शारदाभ्रैरिवाकीर्णं गगनं हंससंप्लवैः |

क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ||१-४३-२३
विनतं क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः |

सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः || १-४३-२४
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः |

तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ||१-४३-२५
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् |

तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ||१-४३-२६
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः |

शापात् प्रपतिता ये च गगनाद्वसुधातलम् ||१-४३-२७
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः |

धूतपापाः पुनस्तेन तोयेनाथ शुभान्विता || १-४३-२८
पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे |

मुमुदे मुदितो लोकस्तेन तोयेन भास्वता || १-४३-२९
कृताभिषेको गंगायां बभूव विगतक्लमः |

भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ||१-४३-३०
प्रायादग्रे महातेजास्तं गंगा पृष्ठतोऽन्वगात् |

देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः || १-४३-३१
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः |
सर्पाश्चाप्सरसो राम भगीरथरथानुगाः || १-४३-३२
गंगामन्वगमन् प्रीताः सर्वे जलचराश्च ये |

यतो भगीरथो राजा ततो गंगा यशस्विनी || १-४३-३३
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी |

ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ||१-४३-३४
गङ्गा संप्लावयामास यज्ञवाटं महत्मनः |

तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव || १-४३-३५
अपिबत्तु जलं सर्वं गङ्गायाः परमाद्भुतम् |

ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः || १-४३-३६
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् |
गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः || १-४३-३७

ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः |
तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च || १-४३-३८

जगाम च पुनर्गङ्गा भगीरथरथानुगा |
सागरं चापि संप्राप्ता सा सरित्प्रवरा तदा ||१-४३-३९
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः |

भगीरथोऽपि रजार्षिर्गङ्गामादाय यत्नतः || १-४३-४०
पितामहान् भस्मकृतानपश्यद्गतचेतनः |

अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् |
प्लावयत् पूतपाप्मानः स्वर्गं प्रप्ता रघूत्तम ||१-४३-४१

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment