Bala Kanda – Sarga 38 (Valmiki Ramayana)

Legend of emperor sagara

Valmiki Ramayana – Kanda 1 – Sarga 38

तां कथां कौशिको रामे निवेद्य मधुराक्षरम् |
पुन रेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् || १-३८-१

अयोध्याधिपतिर्वीरः पूर्वमासीन्नराधिपः |
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः || १-३८-२

वैदर्भदुहिता राम केशिनी नाम नामतः |
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी || १-३८-३

अरिष्ठनेमिदुहिता सुपर्णभगिनी तु सा |
द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता || १-३८-४

ताभ्यां सह महाराजा पत्नीभ्याम् तप्तवांस्तपः |
हिमवंतं समासाद्य भृगुप्रस्रवणे गिरौ || १-३८-५

अथ वर्षशते पूर्णे तपसाराधितो मुनिः |
सगराय वरं प्रादाद् भृगुः सत्यवतां वरः || १-३८-६

अपत्यलाभः सुमहान् भविष्यति तवानघ |
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ || १-३८-७

एका जनयिता तात पुत्रं वंशकरं तव |
षष्टिं पुत्रसहस्राणि ह्यपरा जनयिष्यति || १-३८-८

भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् |
ऊचतुः परमप्रीते कृतांजलिपुटे तदा || १-३८-९

एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति |
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव || १-३८-१०

तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः |
उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् || १-३८-११

एको वंशकरो वास्तु बहवो वा महाबलाः |
कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति || १-३८-१२

मुनेस्तु वचनं श्रुत्वा केशिनी रघुनंदन |
पुत्रं वंशकरं राम जग्राह नृपसंनिधौ || १-३८-१३

षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा |
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् || १-३८-१४

प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च |
जगाम स्वपुरं राजा सभार्या रघुनन्दन || १-३८-१५

अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत |
असमंज इति ख्यातं केशिनी सगरात्मजम् || १-३८-१६

सुमतिस्तु नरव्याघ्र गर्भतुंबं व्यजायत |
षष्टिः पुत्रसहस्राणि तुंबभेदाद्विनिःसृताः || १-३८-१७

घृतपूर्णेषु कुंभेषु धात्र्यस्तान् समवर्धयन् |
कालेन महता सर्वे यौवनं प्रतिपेदिरे || १-३८-१८

अथ दीर्घेण कालेन रूपयौवनशालिनः |
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा || १-३८-१९

स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः |
बालान् गृहीत्वा तु जले सरय्वा रघुनंदन || १-३८-२०
प्रक्षिप्य प्रहसन् नित्यं मज्जतस्तान् निरीक्ष्य वै |

एवं पापसमाचारः सज्जनप्रतिबाधकः || १-३८-२१
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् |

तस्य पुत्रोंऽशुमान्नाम असमंजस्य वीर्यवान् || १-३८-२२
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः |

ततः कालेन महता मतिः समभिजायत || १-३८-२३
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता |

स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा |
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे || १-३८-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।