Bala Kanda – Sarga 30 (Valmiki Ramayana)

Legend of Siddha Ashrama

Valmiki Ramayana – Kanda 1 – Sarga 30

अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ |
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः || १-३०-१

भगवन् श्रोतुमिच्छावो यस्मिन्काले निशाचरौ |
संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् || १-३०-२

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया |
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ || १-३०-३

अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् |
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति || १-३०-४

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ |
अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् || १-३०-५

उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ |
ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ || १-३०-६

अथ काले गते तस्मिन् षष्ठेऽहनि तदागते |
सौमित्रमब्रवीद्रामो यत्तो भव समाहितः || १-३०-७

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया |
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता || १-३०-८

सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया |
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा || १-३०-९

मंत्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्तते |
आकाशे च महान् शब्दः प्रादुरासीद्भयानकः || १-३०-१०

आवार्य गगनं मेघो यथा प्रावृषि दृश्यते |
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् || १-३०-११

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा |
आगम्य भीमसंकाशा रुधिरौघानवासृजन् || १-३०-१२

तां तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् |
सहसाभिद्रुतो रामस्तानपश्यत्ततो दिवि || १-३०-१३

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः |
लक्ष्मणं त्वथ संप्रेक्ष्य रामो वचनमब्रवीत् || १-३०-१४

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् |
मानवास्त्रसमाधूताननिलेन यथा घनान् || १-३०-१५
करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् |

इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् || १-३०-१६
मानवं परमोदारमस्त्रं परमभास्वरम् |
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः || १-३०-१७

स तेन परमास्त्रेण मानवेन समाहितः |
संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे || १-३०-१८

विचेतनं विघूर्णन्तं शीतेषु बलपीडितम् |
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् || १-३०-१९

पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् |
मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत || १-३०-२०

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः |
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् || १-३०-२१

इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव |
संगृह्य सुमहच्चास्त्रमाग्नेयं रघुनंदनः |
सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि || १-३०-२२

शेषान् वायव्यमादाय निजघान महायशाः |
राघवः परमोदारो मुनीनां मुदमावहन् || १-३०-२३

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनंदनः |
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजयी पुरा || १-३०-२४

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः |
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् || १-३०-२५

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया |
सिद्धाश्रममिदं सत्यं कृतं वीर महायशः |
स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् || १-३०-२६

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment