Vishvamitra teaches Rama about annulment of missiles
Valmiki Ramayana – Kanda 1 – Sarga 28
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः |
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् || १-२८-१
गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि |
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव || १-२८-२
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः |
संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः || १-२८-३
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च |
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् || १-२८-४
लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ |
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ || १-२८-५
पद्मनाभमहानाभौ दुन्दुनाभस्वनाभकौ |
ज्योतिषं शकुनं चैव नैराश्यविमलावुभौ || १-२८-६
यौगंधरविनिद्रौ च दैत्यप्रमधनौ तथा |
शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचिस्तथा
सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा || १-२८-७
पित्र्यः सौमनसश्चैव विधूतमकरावुभौ |
करवीरकरं चैव धनधान्यौ च राघव || १-२८-८
कामरूपं कामरुचिं मोहमावरणं तथा |
जृंभकं सर्पनाभं च पन्थानवरणौ तथा || १-२८-९
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः |
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव || १-२८-१०
बाढमित्येव काकुत्स्थ प्रहृष्टेनान्तरात्मना |
दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः || १-२८-११
केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा |
चन्द्रार्कसदृशाः केचित् प्रह्वांजलिपुटास्तथा || १-२८-१२
रामं प्रांजलयो भूत्वाऽब्रुवन् मधुरभाषिणः |
इमे स्म नरशार्दूल शाधि किं करवाम ते || १-२८-१३
गम्यतामिति तानाह यथेष्टं रघुनन्दनः |
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ || १-२८-१४
अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् |
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् || १-२८-१५
स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् |
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् || १-२८-१६
किं न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः |
वृक्षखण्डमिवाभाति परं कौतूहलं हि मे || १-२८-१७
दर्शनीयं मृगाकीर्णं मनोहरमतीव च |
नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम् || १-२८-१८
निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् |
अनया त्ववगच्छामि देशस्य सुखवत्तया || १-२८-१९
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् |
संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः | १-२८-२०
तव यज्ञस्य विघ्नाय दुरात्मानो महामुनेः |
भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी || १-२८-२१
रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः |
एतत्सर्वं मुनिश्रेष्ट श्रोतुमिच्छाम्यहं प्रभो || १-२८-२२
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः