Vishvamitra endows Rama with supernatural missiles
Valmiki Ramayana – Kanda 1 – Sarga 27
अथ तां रजनीमुष्य विश्वामित्रो महायशाः |
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् || १-२७-१
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः |
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः || १-२७-२
देवासुरगणान् वापि सगन्धर्वोरगान्भुवि |
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि || १-२७-३
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः |
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव || १-२७-४
धर्मचक्रं ततो वीर कालचक्रं तथैव च |
विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च || १-२७-५
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा |
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव || १-२७-६
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् |
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी शुभे || १-२७-७
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज |
धर्मपाशमहं राम कालपाशं तथैव च || १-२७-८
वारुणं पाशमस्त्रं च ददाम्यहमनुत्तमम् |
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन || १-२७-९
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा |
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः || १-२७-१०
वायव्यं प्रथमं नाम ददामि तव चानघ |
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च || १-२७-११
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव |
कंकालं मुसलं घोरं कापालमथ किङ्किणीम् || १-२७-१२
वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः |
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः || १-२७-१३
असिरत्नं महाबाहो ददामि नृवरात्मज |
गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः || १-२७-१४
प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव |
वर्षणं शोषणं चैव संतापनविलापने || १-२७-१५
मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा |
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः || १-२७-१६
पैशाचमस्त्रं दयितं मोहनं नाम नामतः |
प्रतीच्छ नरशार्दूल राजपुत्र महायशः || १-२७-१७
तामसं नरशार्दूल सौमनं च महाबलम् |
संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज || १-२७-१८
सत्यमस्त्रं महाबाहो तथा मायामयं परम् |
सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् || १-२७-१९
सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् |
दारुणं च भगस्यापि शीतेषुमथ मानवम् || १-२७-२०
एतान् राम महाबाहो कामरूपान् महाबलान् |
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज || १-२७-२१
स्थितस्तु प्राङ्मुखो भूत्वा मुनिवरस्तदा |
ददौ रामाय सुप्रीतो मंत्रग्राममनुत्तमम् || १-२७-२२
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् |
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ||१-२७-२३
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः |
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् || १-२७-२४
ऊचुश्च मुदिता रामं सर्वे प्रांजलयस्तदा |
इमे च परमोदाराः किंकरास्तव राघव || १-२७-२५
यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै |
ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः || १-२७-२६
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना |
मनसा मे भविष्यध्वमिति तानभ्यचोदयत् || १-२७-२७
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् |
अभिवाद्य महातेजा गमनायोपचक्रमे || १-२७-२८
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः