Bala Kanda – Sarga 26 (Valmiki Ramayana)

Elimination of demoness tataka

Valmiki Ramayana – Kanda 1 – Sarga 26

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः |
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः || १-२६-१

पितुर्वचननिर्देशात् पितुर्वचनगौरवात् |
वचनं कौशिकस्येति कर्तव्यमविशङ्कया || १-२६-२

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना |
पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः || १-२६-३

सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः |
करिष्यामि न संदेहस्ताटकावधमुत्तमम् || १-२६-४

गोब्राह्मणहितार्थाय देशस्यास्य हिताय च |
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः || १-२६-५

एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः |
ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् || १-२६-६

तेन शब्देन वित्रस्तास्ताटकावनवासिनः |
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता || १-२६-७

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता |
श्रुत्वा चाभ्यद्रवत् क्रुद्धा यतः शब्दो विनिस्सृतः || १-२६-८

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् |
प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत || १-२६-९

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः |
भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च || १-२६-१०

एतां पश्य दुराधर्षां मायाबलसमन्विताम् |
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् || १-२६-११

न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् |
वीर्यं चास्या गतिं चापि हन्यतामिति मे मतिः || १-२६-१२

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता |
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत || १-२६-१३

विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् |
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत || १-२६-१४

उद्धुन्वाना रजो घोरं ताटका राघवावुभौ |
रजो मेघेन महता मुहूर्तं सा व्यमोहयत् || १-२६-१५

ततो मायां समास्थाय शिलावर्षेण राघवौ |
अवाकिरत् सुमहता ततश्चुक्रोध राघवः || १-२६-१६

शिलावर्षं महत्तस्याः शरवर्षेण राघवः |
प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः || १-२६-१७

ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् |
सौमित्रिरकरोत् क्रोधाद् हृतकर्णाग्रनासिकाम् || १-२६-१८

कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः |
अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया || १-२६-१९
अश्मवर्षं विमुंचन्ती भैरवं विचचार सा ||

ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः || १-२६-२०
दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् |

अलं ते घृणया राम पापैषा दुष्टचारिणी || १-२६-२१
यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया |

वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते || १-२६-२२
रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि |

इत्युक्तस्स तु तां यक्षीमश्मवृष्ट्याभिवर्षिणीम् || १-२६-२३
दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः |

सा रुद्धा बाणजालेन मायाबलसमन्विता || १-२६-२४
अभिदुद्राव काकुत्स्थं लक्षमणं च विनेषुदी ||

तामापतन्तीं वेगेन विक्रान्तामशनीमिव || १-२६-२५
शरेणोरसि विव्याध सा पपात ममार च |

तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा || १-२६-२६
साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् |

उवाच परमप्रीतः सहस्राक्षः पुरन्दरः || १-२६-२७
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् |

मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः || १-२६-२८
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे |

प्रजापतेः कृशाश्वस्य पुत्रान्सत्यपराक्रमान् || १-२६-२९
तपोबलभृतो ब्रह्मन् राघवाय निवेदय |

पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः || १-२६-३०
कर्तव्यं सुमहत्कर्म सुराणां राजसूनुना |

एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् || १-२६-३१
विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते |

ततो मुनिवरः प्रीतस्ताटकावधतोषितः || १-२६-३२
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् |

इहाद्य रजनीं राम वसेम शुभदर्शन || १-२६-३३
श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम |

विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः || १-२६-३४
उवास रजनीं तत्र ताटकाया वने सुखम् |

मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि |
रमणीयं विबभ्राज यथा चैत्ररथं वनम् || १-२६-३५

निहत्य तां यक्षसुतां स रामः
प्रशस्यमानः सुरसिद्धसङ्घैः |
उवास तस्मिन्मुनिना सहैव
प्रभातवेलां प्रतिबोध्यमानः || १-२६-३६

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षड्विंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment