Ire of sage Vishvamitra; Vashistha appeases Dasharatha
Valmiki Ramayana – Kanda 1 – Sarga 21
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् |
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् || १-२१-१
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि |
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः || १-२१-२
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् |
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः || १-२१-३
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः |
चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् || १-२१-४
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः |
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् || १-२१-५
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः |
धृतिमान् सुव्रतः श्रीमान्न धर्मं हातुमर्हसि || १-२१-६
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव |
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि || १-२१-७
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः |
इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय || १-२१-८
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः |
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा || १-२१-९
एष विग्रहवान् धर्म एष वीर्यवतां वरः |
एष बुद्ध्याधिको लोके तपसश्च परायणम् || १-२१-१०
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे |
नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन || १-२१-११
न देवा नर्षयः केचिन्नामरा न च राक्षसाः |
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः || १-२१-१२
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः |
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति || १-२१-१३
तेऽपि पुत्रा कृशाश्वस्य प्रजापतिसुतासुताः |
नैकरूपा महावीर्या दीप्तिमंतो जयावहाः || १-२१-१४
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे |
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् || १-२१-१५
पंचाशतं सुतान् लेभे जया लब्धवरा वरान् |
वधायासुरसैन्यानामप्रमेयानरूपिणः || १-२१-१६
सुप्रभाजनयत् चापि पुत्रान् पंचाशतं पुनः |
संहारान्नाम दुर्धर्षान् दुराक्रामान् बलीयसः || १-२१-१७
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः |
अपूर्वाणां च जनने शक्तो भूयः स धर्मवित् || १-२१-१८
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः |
न किंचिदस्त्यविदितं भूतं भव्यं च राघव || १-२१-१९
एवंवीर्यो महातेजा विश्वामित्रो महायशाः |
न रामगमने राजन् संशयं गन्तुमर्हसि || १-२१-२०
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः |
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते || १-२१-२१
इति मुनिवचनात् प्रसन्नचित्तो
रघुवृषभश्च मुमोद पार्थिवाग्र्यः |
गमनमभिरुरोच राघवस्य
प्रथितयशाः कुशिकात्मजाय बुद्ध्या || १-२१-२२
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकविंशः सर्गः