Dasharatha’s dissent to spare Rama’s services
Valmiki Ramayana – Kanda 1 – Sarga 20
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् |
मुहूर्तमिव निस्सज्ञः सज्ञावानिदमब्रवीत् || १-२०-१
ऊनषोडशवर्षो मे रामो राजीवलोचनः |
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः || १-२०-२
इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः |
अनया संवृतो गत्वा योद्धाहं तैर्निशाचरैः || १-२०-३
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः |
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि || १-२०-४
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि |
यावत् प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः || १-२०-५
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता |
अहं तत्रागमिष्यामि न रामं नेतुमर्हसि || १-२०-६
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् |
न चास्त्रबलसंयुक्तो न च युद्धविशारदः || १-२०-७
न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् |
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे || १-२०-८
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि |
यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत || १-२०-९
चतुरंगसमायुक्तं मया सह च तं नय |
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक || १-२०-१०
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि |
चतुर्णामात्मजानां हि प्रीतिः परमिका मम || १-२०-११
ज्येष्ठे धर्मप्रधाने च न रामं नेतुमर्हसि |
किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते || १-२०-१२
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव |
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् || १-२०-१३
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् |
सर्वं मे शंस भगवन् कथं तेषां मया रणे|| १-२०-१४
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः |
तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत || १-२०-१५
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः |
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् || १-२०-१६
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः |
श्रूयते च महाराजा रावणो राक्षसाधिपः || १-२०-१७
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः |
यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः || १-२०-१८
तेन संचोदितौ तौ तु राक्षसौ च महाबलौ |
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः || १-२०-१९
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा |
न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः || १-२०-२०
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके |
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः || १-२०-२१
देवदानवगंधर्वा यक्षाः पतगपन्नगाः|
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि || १-२०-२२
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः |
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः || १-२०-२३
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः |
कथमप्यमरप्रख्यं संग्रामाणामकोविदम् || १-२०-२४
बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् |
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः || १-२०-२५
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् |
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ || १-२०-२६
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः |
अन्यथा त्वनुनेष्यामि भवन्तं सह बान्धवैः || १-२०-२७
इति नरपतिजल्पनाद्द्विजेन्द्रं
कुशिकसुतं सुमहान् विवेश मन्युः |
सुहुत इव मखेऽग्निराज्यसिक्तः
समभवदुज्वलितो महर्षिवह्निः || १-२०-२८
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे विंशः सर्गः