Bala Kanda – Sarga 17 (Valmiki Ramayana)

Brahma orders gods to spawn forest-Rangers, Anara-s

Valmiki Ramayana – kanda 1 – Sarga 1

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः |
उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम् || १-१७-१

सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः |
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः || १-१७-२

मायाविदश्च शूरांश्च वायुवेगसमान् जवे |
नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् || १-१७-३
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् |
सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव || १-१७-४
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च |
यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च || १-१७-५
किंनरीणां च गात्रेषु वानरीणां तनूषु च |
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् || १-१७-६

पूर्वमेव मया सृष्टो जांबवानृक्षपुङ्गवः |
जृंभमाणस्य सहसा मम वक्रादजायत || १-१७-७

ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् |
जनयामासुरेवं ते पुत्रान् वानररूपिणः || १-१७-८

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः |
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः || १-१७-९

वानरेन्द्रं महेद्राभमिन्द्रो वालिनमात्मजम् |
सुग्रीवं जनयामास तपनस्तपतां वरः || १-१७-१०

बृहस्पतिस्त्वजनयत्तारं नाम महाकपिम् |
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् || १-१७-११

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः |
विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् || १-१७-१२

पावकस्य सुतः श्रीमान्नीलोऽग्नि सदृशप्रभः |
तेजसा यशसा वीर्यादत्यरिच्यत वानरान् || १-१७-१३

रूपद्रविणसंपन्नावश्विनौ रूपसंमतौ |
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् || १-१७-१४

वरुणो जनयामास सुषेणं नाम वानरम् |
शरभं जनयामास पर्जन्यस्तु महाबलम् || १-१७-१५

मारुतस्यौरसः श्रीमान् हनुमान्नाम वानरः |
वज्रसंहननोपेतो वैनतेयसमो जवे || १-१७-१६
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि |

ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः || १-१७-१७
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः |

ते गजाचलसंकाशा वपुष्मंतो महाबलाः || १-१७-१८
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे |

यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः || १-१७-१९
अजायत समं तेन तस्य तस्य पृथक् पृथक् |

गोलांगूलीषु चोत्पन्नाः केचिदुन्नतविक्रमाः || १-१७-२०
ऋक्षीषु च तथा जाता वानराः किंनरीषु च |

देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विनः || १-१७-२१
नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः |
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः || १-१७-२२
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः |
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः || १-१७-२३
अप्सरस्सु च मुख्यासु तदा विद्यधरीषु च |
नागकन्यासु च तथा गन्धर्वीणां तनूषु च |

कामरूपबलोपेता यथाकामं विचारिणः || १-१७-२४
सिंहशार्दूलसदृशा दर्पेण च बलेन च |

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः || १-१७-२५
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः |

विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् || १-१७-२६
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् |

दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् || १-१७-२७
नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् |

गृह्णीयुरपि मातंगान् मत्तान् प्रव्रजतो वने || १-१७-२८
नर्दमानाश्च नादेन पातयेयुर्विहंगमान् |

ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् || १-१७-२९
शतं शतसहस्राणि यूथपानां महात्मनाम् |

ते प्रधानेषु यूथेषु हरीणां हरियूथपाः || १-१७-३०
बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् |

अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः || १-१७-३१
अन्ये नानाविधान् शैलान् काननानि च भेजिरे |

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् || १-१७-३२
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः |
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् || १-१७-३३

ते तार्क्ष्यबलसंपन्नाः सर्वे युद्धविशारदाः |
विचरन्तोऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् || १-१७-३४

महाबलो महाबाहुर्वाली विपुलविक्रमः |
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् || १-१७-३५

तैरियं पृथिवी शूरैः सपर्वतवनार्णवा |
कीर्णा विविधसंस्थानैर्नानाव्यंजनलक्षणैः || १-१७-३६

तैर्मेघबृन्दाचलकूटसंनिभैः
महाबलैर्वानरयूथपाधिपैः |
बभूव भूर्भीमशरीररूपैः
समावृता रामसहायहेतोः || १-१७-३७

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तदशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।