Rishyashringa officiates Putrakameshti ritual for Dasharatha
Valmiki Ramayana – kanda 1 – Sarga 15
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् |
लब्धसंज्ञः ततस्तं तु वेदज्ञो नृपमब्रवीत् || १-१५-१
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् |
अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः || १-१५-२
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् |
जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा || १-१५-३
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः |
भागप्रतिग्रहार्थं वै समवेता यथाविधि || १-१५-४
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः |
अब्रुवन् लोककर्तारं ब्रह्माणं वचनं ततः || १-१५-५
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः |
सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः || १-१५-६
त्वया तस्मै वरो दत्तः प्रीतेन भगवान् तदा |
मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे || १-१५-७
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः |
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति || १-१५-८
ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा |
अतिक्रामति दुर्धर्षो वरदानेन मोहितः || १-१५-९
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः |
चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कंपते || १-१५-१०
तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् |
वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि || १-१५-११
एवमुक्तः सुरैः सर्वैः चिन्तयित्वा ततोऽब्रवीत् |
हन्तायं विदितस्तस्य वधोपायो दुरात्मनः || १-१५-१२
तेन गन्धर्वयक्षाणां देवतानां च रक्षसाम् |
अवध्योऽस्मीति वागुक्ता तथेक्तं च तन्मया || १-१५-१३
नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा |
तस्मात् स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते || १-१५-१४
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् |
देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ||१-१५-१५
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः |
श्ङ्खचक्रगदापाणिः पीतवासा जगत्पतिः || १-११५-१६
वैनतेयं समारुह्य भास्करस्तोयदं यथा |
तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः || १-१५-१७
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः |
तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः || १-१५-१८
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया |
राज्ञो दशरथस्य त्वमयोध्याधिपतेः विभोः || १-१५-१९
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः |
अस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च || १-१५-२०
विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् |
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् || १-१५-२१
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् |
स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् || १-१५-२२
राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते |
ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा || १-१५-२३
क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः |
वधार्थं वयमायातास्तस्य वै मुनिभिः सह || १-१५-२४
सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः |
त्वं गतिः परमा देव सर्वेषां नः परंतप || १-१५-२५
वधाय देवशतॄणां नृणां लोके मनः कुरु |
एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः || १-१५-२६
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः
अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् || १-१५-२७
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् |
सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् || १-१५-२८
हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् |
दश वर्ष सहस्राणि दश वर्ष शतानि च || १-१५-२९
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् |
एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् || १-१५-३०
मानुषे चिन्तयामास जन्मभूमिमथात्मनः |
ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् || १-१५-३१
पितरं रोचयामास तदा दशरथं नृपम् |
तदा देवर्षिगन्धर्वाः सरुद्राः साप्सरो गणाः |
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् || १-१५-३२
तमुद्धतं रावणमुग्रतेजसम्
प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् |
विरावणं साधुतपस्विकण्टकम्
तपस्विनामुद्धर तं भयावहम् || १-१५-३३
तमेव हत्वा सबलं सबान्धवम्
विरावणं रावणमुग्रपौरुषम् |
स्वर्लोकमागच्छ गतज्वरश्चिरम्
सुरेन्द्रगुप्तं गतदोषकल्मषम् || १-१५-३४
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः