Ashvamedha commenced as preamble to Putrakameshti ritual
Valmiki Ramayana – kanda 1 – Sarga 14
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे |
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत || १-१४-१
ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः |
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः || १-१४-२
कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः |
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः || १-१४-३
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः |
चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः || १-१४-४
अभिपूज्य तदा हृष्टाः सर्वे चक्रुर्यथाविधि |
प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः || १-१४-५
ऐन्द्रश्च विधिवद्दत्तो राजा चाभिषुतोऽनघः |
माध्यंदिनं च सवनं प्रावर्तत यथाक्रमम् || १-१४-६
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः |
चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुंगवाः || १-१४-७
आह्वयांचक्रिरे तत्र शक्रादीन् विबुधोत्तमान् |
ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः || १-१४-८
गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः |
होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् || १-१४-९
न चाहुतमभूत्तत्र स्खलितं वा न किंचन |
दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे || १-१४-१०
न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते |
नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा || १-१४-११
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते |
तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते || १-१४-१२
वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च |
अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते || १-१४-१३
दीयतां दीयतामन्नं वासांसि विविधानि च |
इति संचोदितास्तत्र तथा चक्रुरनेकशः || १-१४-१४
अन्नकूटाश्च दृश्यन्ते बहवो पर्वतोपमाः |
दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा || १-१४-१५
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा |
अन्नपानैः सुविहितास्तस्मिन्यज्ञे महात्मनः || १-१४-१६
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः |
अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः || १-१४-१७
स्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् |
उपासते च तानन्ये सुमृष्टमणिकुण्डलाः || १-१४-१८
कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि |
प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया || १-१४-१९
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः |
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः || १-१४-२०
नाषडङ्गविदत्रासीत् नाव्रतो नाबहुश्रुतः |
सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः || १-१४-२१
प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा |
तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे || १-१४-२२
श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा |
द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ || १-१४-२३
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः |
शोभार्थं तस्य यज्ञस्य कांचनालंकृताभवन् || १-१४-२४
एकविंशतियूपास्ते एकविंशत्यरत्नयः |
वासोभिरेकविंशद्भिरेकैकं समलंकृताः || १-१४-२५
विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः |
अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः || १-१४-२६
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः |
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि || १-१४-२७
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः |
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि || १-१४-२८
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः |
गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः || १-१४-२९
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् |
उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः || १-१४-३०
शामित्रे तु हयस्तत्र तथा जलचराश्च ये |
ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा || १-१४-३१
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा |
अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य च || १-१४-३२
कौसल्या तं हयं तत्र परिचर्य समंततः |
कृपाणैर्विशशासैनं त्रिभिः परमया मुदा || १-१४-३३
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा |
अवसद्रजनीमेकां कौसल्या धर्मकाम्यया || १-१४-३४
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् |
महिष्या परिवृत्त्या च वावातामपरां तथा || १-१४-३५
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः |
ऋत्विक् परमसंपन्नः श्रपयामास शास्त्रतः || १-१४-३६
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः |
यथाकालं यथान्यायं निर्णुदन् पापमात्मनः || १-१४-३७
हयस्य यानि चांगानि तानि सर्वाणि ब्राह्मणाः |
अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः || १-१४-३८
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः |
अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते || १-१४-३९
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः |
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् || १-१४-४०
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् |
कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् || १-१४-४१
ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ |
अभिजिद्विश्वजिच्चैवमप्तोर्यामो महाक्रतुः || १-१४-४२
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् || १-१४-४३
उद्गात्रे च ततोदीचीं दक्षिणैषा विनिर्मिता |
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा || १-१४-४४
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः |
ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः || १-१४-४५
एवं दत्त्वा प्रहृष्टोऽभूत् श्रीमानिक्ष्वाकुनन्दनः |
ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् || १-१४-४६
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति |
न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने || १-१४-४७
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप |
निष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति || १-१४-४८
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् |
तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् || १-१४-४९
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः |
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः || १-१४-५०
दशकोटीः सुवर्णस्य रजतस्य चतुर्गुणम् |
ऋत्विजश्च ततः सर्वे प्रददुः सहिता वसु || १-१४-५१
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते |
ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः || १-१४-५२
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् |
ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः || १-१४-५३
जांबूनदं कोटिसंंख्यं ब्राह्मणेभ्यो ददौ तदा |
दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् || १-१४-५४
कस्मैचिद्याचमानाय ददौ राघवनंदनः |
ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः || १-१४-५५
प्रणाममकरोत्तेषां हर्षव्याकुलितेन्द्रियः |
तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः || १-१४-५६
उदारस्य नृवीरस्य धरण्यां पतितस्य च |
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् || १-१४-५७
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः |
ततोऽब्रवीदृष्यशृंगं राजा दशरथस्तदा || १-१४-५८
कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत |
तथेति च स राजानमुवाच द्विजसत्तमः |
भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः || १-१४-५९
स तस्य वाक्यं मधुरं निशम्य
प्रणम्य तस्मै प्रयतो नृपेन्द्र |
जगाम हर्षं परमं महात्मा
तं ऋष्यशृङ्गं पुनरप्युवाच || १-१४-६०
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ||