Rishyasringa enticed and brought from woods
Valmiki Ramayana – kanda 1 – Sarga 10
सुमंत्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा |
यथर्ऋष्यशृङ्गस्त्वानीतो येनोपायेन मंत्रिभिः
तन्मे निगदितं सर्वं शृणु मे मंत्रिभिः सह || १-१०-१
रोमपादमुवाचेदं सहामात्यः पुरोहितः |
उपायो निरपायोऽयमस्माभिरभिचिन्तितः || १-१०-२
ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः |
अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च || १-१०-३
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः |
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ||१-१०-४
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः |
प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः || १-१०-५
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् |
पुरोहितो मंत्रिणश्च तथा चक्रुश्च ते तदा || १-१०-६
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् |
आश्रमस्याविदूरेऽस्मिन्यत्नं कुर्वन्ति दर्शने || १-१०-७
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः |
पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् || १-१०-८
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना |
स्त्री वा पुमान्वा यच्चान्यत्सत्त्वं नगरराष्ट्रजम् || १-१०-९
ततः कदाचित्तं देशमाजगाम यदृच्छया |
विभाण्डकसुतस्तत्र ताश्चापश्यद्वरांगनाः || १-१०-१०
ताश्चित्रवेषाः प्रमदा गायंत्यो मधुरस्वरम् |
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् || १-१०-११
कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम् |
एकस्त्वं विजने घोरे वने चरसि शंस नः || १-१०-१२
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः |
हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् || १-१०-१३
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः |
ऋष्यशृङ्ग इति ख्यातं नामकर्म च मे भुवि || १-१०-१४
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः |
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् || १-१०-१५
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै |
तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः || १-१०-१६
गतानां तु ततः पूजां ऋषिपुत्रश्चकार ह |
इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः || १-१०-१७
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः |
ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः || १-१०-१८
अस्माकमपि मुख्यानि फलानीमानि वै द्विज |
गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् || १-१०-१९
ततस्तास्तं समालिंग्य सर्वा हर्षसमन्विताः |
मोदकान्प्रददुस्तस्मै भक्ष्यांश्च विविधान् शुभान् || १-१०-२०
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते |
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् || १-१०-२१
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च |
गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः || १-१०-२२
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः |
अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते || १-१०-२३
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् |
विभाण्डकसुतः श्रीमान्मनसा चिन्तयन्मुहुः || १-१०-२४
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः |
दृष्टैव च ततो विप्रमायान्तं हृष्टमानसाः || १-१०-२५
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः |
एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् || १-१०-२६
चित्राण्यत्र बहूनि स्युर्मूलानि च फलनि च |
तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् || १-१०-२७
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् |
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः || १-१०-२८
तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि |
ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा || १-१०-२९
वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः |
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः || १-१०-३०
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः |
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् || १-१०-३१
अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि |
शांतां शान्तेन मनसा राजा हर्षमवाप सः || १-१०-३२
एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः |
ऋष्यशृङ्गो महातेजाः शन्तया सह भार्यया || १-१०-३३
इति वाल्मीकिरामायणे अदिकाव्ये बालकाण्डे दशमः सर्गः