Bala Kanda – Sarga 8 (Valmiki Ramayana)

King dasharatha proposes Vedic ritual for progeny

Valmiki Ramayana – kanda 1 – Sarga 8

तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः |
सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः || १-८-१

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः |
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् || १-८-२

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् |
मंत्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः || १-८-३
ततोऽब्रवीदिदं राजा सुमन्त्रं मंत्रिसत्तमम् |
शीघ्रमानय मे सर्वान् गुरूंस्तान्सपुरोहितान् || १-८-४

ततः सुमंत्रः त्वरितं गत्वा त्वरितविक्रमः |
समानयत्स तान्सर्वान्समस्तान्वेदपारगान् || १-८-५
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् |
पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः || १-८-६

तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा |
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ||१-८-७

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् |
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम || १-८-८

तदहं यष्टुमिच्छमि शास्त्रदृष्टेन कर्मणा |
कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचिन्त्यताम् || १-८-९

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् |
वशिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् || १-८-१०

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः |
संभाराः संभ्रियंतां ते तुरगश्च विमुच्यताम् || १-८-११

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् |
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव || १-८-१२
यस्य ते धर्मिकी बुद्धिरियं पुत्रार्थमागता |

ततस्तुष्टोऽभवद्राजा श्रुत्वैतद् द्विजभाषितम् || १-८-१३
अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः |
संभाराः संभ्रियंतां मे गुरूणां वचनादिह || १-८-१४

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् |
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् || १-८-१५

शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि |
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता |
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे || १-८-१६

छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः |
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति || १-८-१७

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते |
तथा विधानं क्रियतां समर्थाः साधनेष्विति || १-८-१८

तथेति चाब्रुवन्सर्वे मंत्रिणः प्रतिपूजिता |
पार्थिवेन्द्रस्य तद्वाक्यं यथापूर्वं निशम्य ते || १-८-१९

तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् |
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् || १-८-२०

विसर्जयित्वा तान्विप्रान् सचिवानिदमब्रवीत् |
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् || १-८-२१

इत्युक्त्वा नृपशार्दूलः सचिवान्समुपस्थितान् |
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः || १-८-२२

ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः |
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् || १-८-२३

तासां तेनातिकान्तेन वचनेन सुवर्चसाम् |
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये || १-८-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टमः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।