Bala Kanda – Sarga 4 (Valmiki Ramayana)

Lava and Kusha assigned to sing the epic & rAma listents to it

Valmiki Ramayana – kanda 1 – Sarga 4

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः |
चकार चरितं कृत्स्नं विचित्रपदमर्थवत् || १-४-१

चतुर्विंशत्सहस्त्राणि श्लोकानामुक्तवानृषिः |
तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम् ||१-४-२

कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम् |
चिन्तयामास कोन्वेतत्प्रयुञ्जीयादिति प्रभुः ||१-४-३

तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः |
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ || १-४-४

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ |
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ || १-४-५

स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ |
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः || १-४-६

काव्यं रामायणं कृत्स्न्नं सीतायाश्चरितं महत् |
पौलस्त्यवधमित्येवं चकार चरितव्रतः || १-४-७

पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् |
जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ||१-४-८

रसैः शृंगारकरुणहास्यरौद्रभयानकैः |
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ||१-४-९

तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ |
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रुपिणौ || १-४-१०

रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ |
बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ || १-४-११

तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् |
वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ || १-४-१२

ऋषीणां च द्विजातीनां साधूनां च समागमे |
यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ || १-४-१३

महात्मानौ महाभागौ सर्वलक्षणलक्षितौ |
तौ कदाचित्समेतानामृषीणां भावितात्मनाम् |
मध्येसभं समीपस्थाविदं काव्यमगायताम् || १-४-१४

तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः |
साधु साध्विति तावूचुः परं विस्मयमागताः || १-४-१५

ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः |
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ || १-४-१६

अहो गीतस्य माधुर्यं श्लोकानां च विशोषतः |
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् || १-४-१७

प्रविश्य तावुभौ सुष्ठु तथा भावमगायताम् |
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा || १-४-१८

एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः |
संरक्ततरमत्यर्थं मधुरं तावगायताम् || १-४-१९

प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ |
प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः || १-४-२०

अन्यः कृष्णाजिनमदाद्यज्ञसूत्रं तथापरः |
कश्चित्कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः || १-४-२१
बृसीमन्यस्तदा प्रादात्कौपीनमपरो मुनिः |
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः || १-४-२२
काषायमपरो वस्त्रं चिरमन्यो ददौ मुनिः |
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः || १-४-२३
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः |
औदुम्बरीं बृसीमन्यः स्वस्ति केचित्तदावदन् || १-४-२४
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः |
ददुश्चैवं वरान्सर्वे मुनयः सत्यवादिनः || १-४-२५

आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् |
परं कवीनामाधारं समाप्तं च यथाक्रमम् || १-४-२६

अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ |
आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् || १-४-२७
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ |
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः || १-४-२८

स्ववेश्म चानिय ततो भ्रातरौ स कुशीलवौ |
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः || १-४-२९

आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः |
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः || १-४-३०

दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ |
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा || १-४-३१

श्रूयतामेतदाख्यानमनयोर्देववर्चसोः |
विचित्रार्थपदं सम्यग्गायकौ समचोदयत् || १-४-३२

तौ चापि मधुरं रक्तं स्वञ्चितायतनिःस्वनम् |
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् || १-४-३३

ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च |
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि || १-४-३४

इमौ मुनी पार्थिवलक्षणान्वितौ
कुशीलवौ चैव महातपस्विनौ |
ममापि तद् भूतिकरं प्रचक्षते
महानुभावं चरितं निबोधत || १-४-३५

ततस्तु तौ रामवचःप्रचोदितावगायतां मार्गविधानसम्पदा |
स चापि रामः परिषद्गतः शनैर्बुभूषया सक्तमना बभूव || १-४-३६

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुर्थः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment