Valmiki gets divine guidance to compile the epic
Valmiki Ramayana – kanda 1 – Sarga 2
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः |
पूजयामास धर्मात्मा सहशिष्यो महामुनिः || १-२-१
यथावत्पूजितस्तेन देवर्षिर्नारदस्तथा |
आपृच्छैवाभ्यनुज्ञातः स जगाम विहायसम् || १-२-२
स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा |
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः || १-२-३
स तु तीरं समासाद्य तमसाया महामुनिः |
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् || १-२-४
अकर्दममिदं तीर्थं भरद्वाज निशामय |
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा || १-२-५
न्यस्यतां कलशस्तात दीयतां वल्कलं मम |
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् || १-२-६
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना |
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः || १-२-७
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः |
विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् || १-२-८
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् |
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् || १-२-९
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः |
जघान वैरनिलयो निषादस्तस्य पश्यतः || १-२-१०
तं शोणितपरीताङ्गं वेष्टमानं महीतले |
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् || १-२-११
वियुक्ता पतिना तेन द्विजेन सहचारिणा |
ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै | १-२-१२
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् |
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत || १-२-१३
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः |
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् || १-२-१४
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः |
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् || १-२-१५
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः |
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया || १-२-१६
चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् |
शिष्यञ्चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः || १-२-१७
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः |
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा || १-२-१८
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् |
प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवद्मुनिः || १-२-१९
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि |
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः || १-२-२०
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः |
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह || १-२-२१
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् |
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः || १-२-२२
आजगाम ततो ब्रह्म लोककर्ता स्वयं प्रभुः |
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् || १-२-२३
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः |
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः || १-२-२४
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः |
प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् || १-२-२५
अथोपविश्य भगवानासने परमार्चिते |
वाल्मीकये च ऋषये सन्दिदेशासनं ततः || १-२-२६
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने |
उपविष्टे तदा तस्मिन्साक्षाल्लोकपितामहे | १-२-२७
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ||
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना | १-२-२८
यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ||
शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः | १-२-२९
जगावन्तर्गतमना भूत्वा शोकपरायणः ||
तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुङ्गवम् |
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ||१-२-३०
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती |
रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम || १-२-३१
धर्मात्मनो गुणवतो लोके रामस्य धीमतः |
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् || १-२-३२
रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः |
रामस्य सहसौमित्रे राक्षसानां च सर्वशः || १-२-३३
वैदेह्याश्चापि यद् वृत्तं प्रकाशं यदि वा रहः |
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति || १-२-३४
न ते वागनृता काव्ये काचिदत्र भविष्यति |
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् || १-२-३५
यावत्स्थास्यन्ति गिरयः सरितश्च महीतले |
तावद्रामायणकथा लोकेषु प्रचरिष्यति || १-२-३६
यावद्रामायणकथा त्वत्कृता प्रचरिष्यति |
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि | १-२-३७
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत |
ततः सशिष्यो भगवान्मुनिर्विस्मयमाययौ || १-२-३८
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः |
मुहुर्महुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः || १-२-३९
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा |
सोऽनुव्याहरणाद् भूयः श्लोकः श्लोकत्वमागतः || १-२-४०
तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः |
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् || १-२-४१
उदारवृत्तार्थपदैर्मनोरमैः
तदास्य रामस्य चकार कीर्तिमान् |
समाक्षरैः श्लोकशतैर्यशस्विनो
यशस्करं काव्यमुदारधीर्मुनिः || १-२-४२
तदुपगतसमाससन्धियोगं
सममधुरोपनतार्थवाक्यबद्धम् |
रघुवरचरितं मुनिप्रणीतं
दशशिरसश्च वधं निशामयध्वम् || १-२-४३
इति वाल्मिकिरामायणे आदिकाव्ये बालकाण्डे द्वितीयः सर्गः