श्रीमद्भगवद्गीता

भगवद गीता के पंद्रहवें अध्याय 'पुरुषोत्तम योग' में भगवान श्रीकृष्ण आत्मा, शरीर और परमात्मा के रहस्यों को प्रकट करते हैं। इस अध्याय में परम पुरुष की महिमा का गूढ़ वर्णन है। जानें इसका सार, महत्व और आध्यात्मिक संदेश।

श्रीमद्भगवद्गीता का पंद्रहवां अध्याय – पुरुषोत्तमयोग

|| ॐ श्री परमात्मने नमः ||

॥ अथ पञ्चदशोऽध्यायः ॥

परम पुरुष (भगवान) का स्वरूप

श्रीभगवानुवाच

श्लोक || 15.1 ||

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्॥

श्लोक || 15.2 ||

अधश्चोर्ध्वं प्रसृतास्तस्य शाखाःगुणप्रवृद्धा विषयप्रवालाः।
अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके॥

श्लोक || 15.3 ||

न रूपमस्येह तथोपलभ्यतेनान्तो न चादिर्न च सम्प्रतिष्ठा।
अश्वत्थमेनं सुविरूढमूलम्असङ्गशस्त्रेण दृढेन छित्त्वा॥

श्लोक || 15.4 ||

ततः पदं तत् परिमार्गितव्यम्यस्मिन् गता न निवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्येयतः प्रवृत्तिः प्रसृता पुराणी॥

श्लोक || 15.5 ||

निर्मानमोहा जितसङ्गदोषाःअध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैःगच्छन्त्यमूढाः पदमव्ययं तत्॥

श्लोक || 15.6 ||

न तद्भासयते सूर्यो न शशाङ्को न पावकः।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥

श्लोक || 15.7 ||

ममैवांशो जीवलोके जीवभूतः सनातनः।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥

श्लोक || 15.8 ||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥

श्लोक || 15.9 ||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।
अधिष्ठाय मनश्चायं विषयानुपसेवते॥

श्लोक || 15.10 ||

उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम्।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥

श्लोक || 15.11 ||

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥

श्लोक || 15.12 ||

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥

श्लोक || 15.13 ||

गामाविश्य च भूतानि धारयाम्यहमोजसा।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥

श्लोक || 15.14 ||

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥

श्लोक || 15.15 ||

सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम्॥

श्लोक || 15.16 ||

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥

श्लोक || 15.17 ||

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥

श्लोक || 15.18 ||

यस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥

श्लोक || 15.19 ||

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वविद्भजति मां सर्वभावेन भारत॥

श्लोक || 15.20 ||

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।
एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥