श्रीमद्भगवद्गीता

श्रीमद्भगवद्गीता का ग्यारहवाँ अध्याय 'विश्वरूपदर्शनयोग' भगवान श्रीकृष्ण के विराट रूप के अद्भुत दर्शन को प्रकट करता है। जानें इसका सार, श्लोकों का भावार्थ और आध्यात्मिक महत्व इस लेख में।

श्रीमद्भगवद्गीता का ग्यारहवाँ अध्याय – विश्वरूपदर्शनयोग

|| ॐ श्री परमात्मने नमः ||

॥ अथैकादशोऽध्यायः ॥

भगवान का विराट रूप

अर्जुन उवाच

श्लोक || 11.1 ||

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥

श्लोक || 11.2 ||

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥

श्लोक || 11.3 ||

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥

श्लोक || 11.4 ||

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥

श्रीभगवानुवाच

श्लोक || 11.5 ||

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥

श्लोक || 11.6 ||

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥

श्लोक || 11.7 ||

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि॥

श्लोक || 11.8 ||

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥

सञ्जय उवाच

श्लोक || 11.9 ||

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्॥

श्लोक || 11.10 ||

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥

श्लोक || 11.11 ||

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥

श्लोक || 11.12 ||

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥

श्लोक || 11.13 ||

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥

श्लोक || 11.14 ||

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥

अर्जुन उवाच

श्लोक || 11.15 ||

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुरगांश्च दिव्यान्॥

श्लोक || 11.16 ||

अनेकबाहूदरवक्त्रनेत्रम् पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप॥

श्लोक || 11.17 ||

किरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतो दीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्॥

श्लोक || 11.18 ||

त्वमक्षरं परमं वेदितव्यम्त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे॥

श्लोक || 11.19 ||

अनादिमध्यान्तमनन्तवीर्यम्अनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रम्स्वतेजसा विश्वमिदं तपन्तम्॥

श्लोक || 11.20 ||

द्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदम् लोकत्रयं प्रव्यथितं महात्मन्॥

श्लोक || 11.21 ||

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥

श्लोक || 11.22 ||

रुद्रादित्या वसवो ये च साध्याःविश्वेश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घाःवीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥

श्लोक || 11.23 ||

रूपं महत्ते बहुवक्त्रनेत्रम्महाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालम्दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्॥

श्लोक || 11.24 ||

नभःस्पृशं दीप्तमनेकवर्णम्व्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो॥

श्लोक || 11.25 ||

दंष्ट्राकरालानि च ते मुखानिदृष्ट्वैव कालानलसन्निभानि।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥

श्लोक || 11.26 ||

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः॥

श्लोक || 11.27 ||

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥

श्लोक || 11.28 ||

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥

श्लोक || 11.29 ||

यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्धवेगाः॥

श्लोक || 11.30 ||

लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत् समग्रम् भासस्तवोग्राः प्रतपन्ति विष्णो॥

श्लोक || 11.31 ||

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामि तव प्रवृत्तिम्॥

श्रीभगवानुवाच

श्लोक || 11.32 ||

कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥

श्लोक || 11.33 ||

तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥

श्लोक || 11.34 ||

द्रोणं च भीष्मं च जयद्रथं चकर्णं तथाऽन्यानपि योधवीरान्।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥

सञ्जय उवाच

श्लोक || 11.35 ||

एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णम्सगद्गदं भीतभीतः प्रणम्य॥

अर्जुन उवाच

श्लोक || 11.36 ||

स्थाने हृषीकेश तव प्रकीर्त्याजगत् प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्तिसर्वे नमस्यन्ति च सिद्धसङ्घाः॥

श्लोक || 11.37 ||

कस्माच्च ते न नमेरन् महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्॥

श्लोक || 11.38 ||

त्वमादिदेवः पुरुषः पुराणःत्वमस्य विश्वस्य परं निधानम्।
वेत्ताऽसि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप॥

श्लोक || 11.39 ||

वायुर्यमोऽग्निर्वरुणः शशाङ्कःप्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्वःपुनश्च भूयोऽपि नमो नमस्ते॥

श्लोक || 11.40 ||

नमः पुरस्तादथ पृष्ठतस्तेनमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वम्सर्वं समाप्नोषि ततोऽसि सर्वः॥

श्लोक || 11.41 ||

सखेति मत्वा प्रसभं यदुक्तम्हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदम्मया प्रमादात्प्रणयेन वाऽपि॥

श्लोक || 11.42 ||

यच्चावहासार्थमसत्कृतोऽसिविहारशय्यासनभोजनेषु।
एकोऽथवाऽप्यच्युत तत् समक्षम्तत् क्षामये त्वामहमप्रमेयम्॥

श्लोक || 11.43 ||

पिताऽसि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव॥

श्लोक || 11.44 ||

तस्मात् प्रणम्य प्रणिधाय कायम्प्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युःप्रियः प्रियायार्हसि देव सोढुम्॥

श्लोक || 11.45 ||

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वाभयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपम्प्रसीद देवेश जगन्निवास॥

श्लोक || 11.46 ||

किरीटिनं गदिनं चक्रहस्तम्इच्छामि त्वां द्रष्टुमहं तथैव।
तेनैव रूपेण चतुर्भुजेनसहस्रबाहो भव विश्वमूर्ते॥

श्रीभगवानुवाच

श्लोक || 11.47 ||

मया प्रसन्नेन तवार्जुनेदम्रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यम्यन्मे त्वदन्येन न दृष्टपूर्वम्॥

श्लोक || 11.48 ||

न वेदयज्ञाध्ययनैर्न दानैःन च क्रियाभिर्न तपोभिरुग्रैः।
एवं रूपः शक्य अहं नृलोकेद्रष्टुं त्वदन्येन कुरुप्रवीर॥

श्लोक || 11.49 ||

मा ते व्यथा मा च विमूढभावोदृष्ट्वा रूपं घोरमीदृङ्ममेदम्।
व्यपेतभीः प्रीतमनाः पुनस्त्वम्तदेव मे रूपमिदं प्रपश्य॥

सञ्जय उवाच

श्लोक || 11.50 ||

इत्यर्जुनं वासुदेवस्तथोक्त्वास्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनम्भूत्वा पुनः सौम्यवपुर्महात्मा॥

अर्जुन उवाच

श्लोक || 11.51 ||

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥

श्रीभगवानुवाच

श्लोक || 11.52 ||

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥

श्लोक || 11.53 ||

नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥

श्लोक || 11.54 ||

भक्त्या त्वनन्यया शक्यम् अहमेवंविधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥

श्लोक || 11.55 ||

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥