Legend of Sage Rishyasringa
Valmiki Ramayana – kanda 1 – Sarga 9
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् |
श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् || १-९-१
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः |
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् || १-९-२
ऋषीणां सन्निधौ राजंस्तव पुत्रागमं प्रति |
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः || १-९-३
ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा || १-९-४
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् |
द्वैविध्यं ब्रहचर्यस्य भविष्यति महात्मनः || १-९-५
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा |
तस्यैवं वर्तमानस्य कालः समभिवर्तत || १-९-६
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् |
एतस्मिन्नेव काले तु रोमपादः प्रतापवान् || १-९-७
अङ्गेषु प्रथितो राजा भविष्यति महाबलः |
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा || १-९-८
अनावृष्ठिः सुघोरा वै सर्वभूतभयावहा |
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः || १-९-९
ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति |
भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः || १-९-१०
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् |
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः || १-९-११
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः |
विभाण्डकसुतं राजन् सर्वोपायैरिहानय || १-९-१२
आनाय्य तु महीपाल ऋश्यशृङ्गं सुसत्कृतम् ।
विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते |
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् || १-९-१४
ततो राजा विनिश्चित्य सह मंत्रिभिरात्मवान् |
पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् || १-९-१५
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः |
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् || १-९-१६
वक्ष्यन्ति चिंतयित्वा ते तस्योपायांश्च तत्क्षमान् |
आनेष्यामो वयं विप्रं न च दोषो भविष्यति || १-९-१७
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः |
आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते || १-९-१८
ऋष्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति |
सनत्कुमारकथितमेतावद्व्याहृतं मया || १-९-१९
अथ हृष्टो दशरथः सुमंत्रं प्रत्यभाषत |
यथर्ऋष्यशृङ्गस्त्वानीतो विस्तरेण तथोच्यताम् || १-९-२०
इति वल्मीकिरामायणे आदिकाव्ये बालकाण्डे नवमः सर्गः