Happy days after marriages
Valmiki Ramayana – Kanda 1 – Sarga 77
गते रामे प्रशांतात्मा रामो दाशरथिर्धनुः |
वरुणायाप्रमेयाय ददौ हस्ते महायशाः || १-७७-१
अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन् |
पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनंदनः || १-७७-२
जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिगिणी |
अयोध्याभिमुखी सेना त्वया नाथेन पालिता || १-७७-३
4,5 रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् |
बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् || १-७७-४
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः |
पुनर्जातं तदा मेने पुत्रमात्मानमेव च || १-७७-५
चोदयामास तां सेनां जगामाशु ततः पुरीम् |
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् || १-७७-६
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् |
राजप्रवेशसुमुखैः पौरैर्मंगलपाणिभिः || १-७७-७
संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम् |
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः || १-७७-८
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः |
प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम् || १-७७-९
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः |
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा || १-७७-१०
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः |
ततः सीतां महाभागामूर्मिलां च यशस्विनीम् || १-७७-११
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः |
मंगलालापनैर्होमैः शोभिताः क्षौमवाससः || १-७७-१२
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् |
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा || १-७७-१३
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः |
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः || १-७७-१४
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः |
कस्यचित्त्वथ कालस्य राजा दशरधः सुतम् || १-७७-१५
भरतं कैकेयीपुत्रमब्रवीद्रघुनन्दनः |
अयं केकयराजस्य पुत्रो वसति पुत्रक || १-७७-१६
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव |
श्रुत्वा दशरथस्यैतद्भरतः कैकेयीसुतः || १-७७-१७
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा |
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकर्मणम् || १-७७-१८
मातृश्चापि नरश्रेष्टः शत्रुघ्नसहितो ययौ |
युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः || १-७७-१९
स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह |
गते च भरते रामो लक्ष्मणश्च महाबलः || १-७७-२०
पितरं देवसंकाशं पूजयामासतुस्तदा |
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः || १-७७-२१
चकार रामः सर्वाणि प्रियाणि च हितानि च |
मातृभ्यो मातृकार्याणि कृत्वा परमयंत्रितः || १-७७-२२
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत |
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा || १-७७-२३
रामस्य शीलवृत्तेन सर्वं विषयवासिनः |
तेषामतियशा लोके रामः सत्यपराक्रमः || १-७७-२४
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः |
रामश्च सीतया सार्धं विजहार बहूनृतून् || १-७७-२५
मनस्वी तद्गतमानस्य तस्या हृदि समर्पितः |
प्रिया तु सीता रामस्य दाराः पितृकृता इति || १-७७-२६
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते |
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते || १-७७-२७
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा |
तस्य भूयो विशेषेण मैथिली जनकात्मजा |
देवताभिः समा रूपे सीता श्रीरिव रूपिणी || १-७७-२८
तया स राजर्षिसुतोऽभिकामया
समेयिवानुत्तमराजकन्यया |
अतीव रामः शुशुभे मुदान्वितो
विभुः श्रिया विष्णुरिवामरेश्वरः || १-७७-२९
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः