Parashu Rama’s arrival
Valmiki Ramayana – Kanda 1 – Sarga 74
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः |
आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् || १-७४-१
विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् |
आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम् || १-७४-२
अथ राजा विदेहानां ददौ कन्याधनं बहु |
गवां शतसहस्राणि बहूनि मिथिलेश्वरः || १-७४-३
कंबलानां च मुख्यानां क्षौमान् कोट्यंबराणि च |
हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् || १-७४-४
ददौ कन्याशतं तासां दासीदासमनुत्तमम् |
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च || १-७४-५
ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम् |
दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम् || १-७४-६
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः |
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः || १-७४-७
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः |
गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् || १-७४-८
घोरास्तु पक्षिणो वाचो व्याहरन्ति समंततः |
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् || १-७४-९
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत |
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः || १-७४-१०
किमिदं हृदयोत्कंपि मनो मम विषीदति |
राज्ञो दशरथस्यैतत् श्रुत्वा वाक्यं महानृषिः || १-७४-११
उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् |
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् || १-७४-१२
मृगाः प्रशमयन्त्येते संतापः त्यज्यतामयम् |
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह || १-७४-१३
कंपयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान् |
तमसा संवृतः सूर्यः सर्वे न वेदिषुर्दिशः || १-७४-१४
भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् |
वसिष्ठ ऋषयचान्ये राजा च ससुतस्तदा || १-७४-१५
ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् |
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः || १-७४-१६
ददर्श भीमसंकाशं जटामण्डलधारिणम् |
भार्गवं जामदग्न्यं तं राजा राजविमर्दनम् || १-७४-१७
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् |
ज्वलंतमिव तेजोभिः दुर्निरीक्ष्यं पृथग्जनैः || १-७४-१८
स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् |
प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम् || १-७४-१९
तं दृष्ट्वा भीमसंकाशं ज्वलंतमिव पावकम् |
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः || १-७४-२०
संगता मुनयः सर्वे संजजल्पुरथो मिथः |
कच्चित् पितृवधामर्षी क्षत्र ं नोत्सादयिष्यति || १-७४-२१
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः |
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् || १-७४-२२
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् |
ऋषयो राम रामेति मधुरं वाक्यमब्रुवन् || १-७४-२३
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् |
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत || १-७४-२४
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः